पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/९४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्दशोत्तरशततमः सर्गः
तब चैवमहाबाहो दैवयोगादुपागतः । नैवार्थेन न कामेन विक्रमेण न चाज्ञया ||
शक्या दैवगतिलों के निवर्तयितुमुद्यता । विलेपुरेव दीनास्ता राक्षमा घिपयोषितः ॥
कुरर्य इव दुःखार्ता बाप्पपर्याकुलेक्षणाः ॥
इस्यायें श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसत्रिकायां संडितायाम्
युद्धकाण्डे रामणान्तःपुरपरिदेवनं नाम प्रयोदशोत्तरशततमः सर्गः
चतुर्दशोत्तरशततमः सर्गः
मन्दोदरी विलाप:
२५
२६





तासां विलपमानानां तथा राक्षसयोपिताम् । ज्येष्ठा पत्नी प्रिया दीना भर्तारं समुदक्षत ॥ १
दशमीचं हतं दृष्ट्वा रामेणाचिन्त्यकर्मणा । पतिं मन्दोदरी तत्र कृपणा पर्यदेवयत् ॥
ननु नाम महाभाग तय वैश्रवणानुज क्रुद्धम्य प्रमुखे स्थातुं त्रस्यत्यपि पुरन्दरः ॥
ऋषयश्च महीदेवा गन्धर्वाश्च यशस्विनः । ननु नाम तवोद्वेगाच्चारणाश्च दिशो गताः ॥
स त्वं मानुषमात्रेण रामेण युधि निर्जिनः । न व्यपत्रपसे राजन् किमिदं राक्षसर्षभ ।
कथं त्रैलोक्यमाक्रम्य श्रिया वीर्येण चान्वितम् । अविषक्षं जघान त्वां मानुषो बनगोचरः ॥ ६
मानुषाणामविषये चरतः कामरूपिणः । विनाशस्तव रामेण संयुगे नोपपद्यते ||
न चैतत् कर्म रामस्य श्रद्दधामि चमूमुग्वे | सर्वतः समुपेतम्य तव तेनाभिमर्शनम् ||
यदैव च जनम्थाने राक्षसैर्बहुभिर्वृतः । स्वरस्तव हतो भ्राता तथैवासौ न मानुषः ॥
यदैव नगरी लङ्कां दुष्प्रवेशां सुरैरपि । प्रविष्टो हनुमान् वीर्यात्तदैव व्यथिता वयम् ||
यदैव वानरैघोरर्वद्धः सेतुर्महार्णवे। तदैव हृदयेनाहं शक्के रामममानुषम् ||
अथवा रामरूपेण कृतान्तः स्वयमागत । मायां तव विनाशाय विधायाप्रतितर्किताम् ॥
अथवा वासवेन त्वं धर्षितोऽसि महाबल | वासवस्य कुतः शक्तिस्त्वां द्रष्टुमपि संयुगे ॥
व्यक्तमेष महायोगी परमात्मा सनातनः । अनादिमध्यनिधनो महतः परमो महान् ॥ १४
तमसः परमो धाता शङ्खचक्रगदाधरः । श्रीवत्सवक्षा नित्यश्रीरजय्यः शाश्वतो ध्रुवः ॥ १५
मानुषं वपुरस्थाय विष्णुः सत्यपराक्रमः | सर्वैः परिवृतो देवैर्वानरत्वमुपागतैः ||
सर्वलोकेश्वरः साक्षाल्लोकानां हितकाम्यया | सराक्षसपरीवारं हतवांस्त्वां महाधुतिः ॥
इन्द्रियाणि पुरा जित्वा जितं त्रिभुवनं त्वया । स्मरद्भिरिव तद्वैरमिन्द्रियैरेव निर्जितः ॥
क्रियतामविरोधश्च राघवेणेति यन्मया । उच्यमानो न गृह्णासि तस्येयं व्युष्टिरागता ||
अकस्माच्या भिकामोऽसि सीतां राक्षसपुङ्गव । ऐश्वर्यस्य विनाशाय देहस्य स्वजनस्य च ॥ २०
अरुन्धत्या विशिष्टां तां रोहिण्याश्चापि दुर्मते । सीतां वर्षयता मान्यां त्वया मसदृशं कृतम् ॥
१२
१३