पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/९४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

दशात्तरशततमः सर्गः ८८५ तान् दृष्ट्वा रावणश्चके स्वशरैः रवं निरन्तरम् । ततस्ताभ्यां प्रमुक्तेन शरवर्षेण भास्वता ॥ २३ शरबद्धमिवाभाति द्वितीय भास्वदम्बरम् । नानिमित्तोऽभवद्वाणो नातिमेत्ता न निष्फलः ॥२४ अन्योन्यमभिसंहत्य निपेतुर्धरणीतले । तथा विसृजतोर्वाणान् रामरावणयोम॑धे ॥ २५ प्रायुध्यतामविच्छिन्नमस्यन्तौ सत्यदक्षिणम्'। चक्रतुश्च शरौघैस्तौ निरुच्छासमिवाम्बरम् ॥२६ रावणस्य हयान् रामो हयान् रामस्य रावणः । जनतुस्तौ तथान्योन्यं कृतानुकृतकारिणौ ॥ एवं तु तौ सुसंक्रुद्धौ चक्रतुयुद्धमद्भुतम् । मुहूर्तमभवद्युद्धं तुमुलं रोमहर्षणम् ॥ २८ प्रयुध्यमानौ समरे महाबलौ शितैः शरै रावणलक्ष्मणाग्रजौ । ध्वजावपातेन स राक्षसाधिपो भृशं प्रचुक्रोध तदा रघूत्तमे ॥ २९ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाम्ये चतुर्विशसिसहस्त्रिकायां संहितायाम् युद्धकाण्डे रावणध्वजोन्मथनं नाम नषोत्तरशततमः सर्ग:

दशोत्तरशततमः सर्गः रावणैकशतशिरश्छेदनम् तौ तदा युध्यमानौ तु समरे रामरावणौ । ददृशुः सर्वभूतानि विस्मितेनान्तरात्मना ॥ १ अर्दयन्तौ तु समरे तयोस्तौ म्यन्दनोत्तमौ । परम्परमभिक्रुद्धौ परम्परमभिद्रुतौ ॥ २ परस्परवधे युक्तौ घोररूपी बभूवतुः । मण्डलानि च वीथीश्च गतप्रत्यागतानि च ॥ ३ दर्शयन्तौ बहुविधा मृतसारथ्यजां गतिम् । अर्दयन रावणं रामो राघवं चापि रावणः ॥ ४ गतिवेगं समापन्नौ प्रवर्तन निवर्तननिवर्तने । क्षिपतोः शरजालानि नयोन्तौ स्यन्दनोत्तमौ ॥ ५ चेरतुः संयुगमही सासारौ जलदौ यथा । दर्शयित्वा तथा तौ तु गतिं बहुविधा रणे ॥ ६ परस्परम्याभिमुखौ पुनरवावतस्थतुः । धुरं धुरेण रथयोर्वक्त्रं वक्त्रेण वाजिनाम्॥ ७ पताकाश्च पताकामि समेयुः स्थितयोम्तदा। रावणन्य ततो रामो धनुर्मुक्तैः शितैः शरैः ॥ ८ चतुर्भिश्चतुरो दीप्तैर्हयान् प्रत्यपमर्पयत्। स क्रोधवशमापन्नो हयानामपसर्पणे ॥ ९ मुमोच निशितान् बाणान् राघवाय निशाचरः। सोऽतिविद्धो बलवता दशग्रीवेण राघवः ॥ जगाम न विकारं च न चापि व्यथितोऽभवत् । चिक्षेप च पुनर्वाणान् वज्रपातसमस्वनान् ॥ सारथिं वज्रहस्तस्य समुद्दिश्य निशाचरः। मातलेस्तु महावेगाः शरीर पतिताः शराः ॥ १२ न सूक्ष्ममपि संमोहं न्यथां वा प्रददुर्युधि । तया धर्षणया क्रुद्धो मातलेर्न तथात्मनः ॥ १३

1. अत्र सर्गमेदकरणं तिलकाननुमनम् । पश्यद्भिरनिमेषणम् । भूमिष्ठैः कपिरक्षोभिः खस्थैर्वा १ अस्यानन्तरम्-नान्तरं ददृशे किंचित देवदानवैः ॥ इति क. ष.।