पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/९४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

८८६ श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे चकार शरजालेन राघवो विमुखं रिपुम् । विंशतं त्रिंशतं षष्टिं शतशोऽथ सहस्रशः ॥ १४ मुमोच राघवो वीरः सायकान् स्यन्दने रिपोः । रावणोऽपि ततः क्रुद्धो रथस्थो राक्षसेश्वरः ॥ १५ गदामुसलवर्षेण रामं प्रत्यर्दयद्रणे । तत्प्रवृत्तं महद्युद्धं तुमुलं रोमहर्षणम् ॥ १६ गदानां मुसलानां च परिषाणां च निःस्वनैः। शराणां पुङ्भ्वपातैश्च क्षुभिताः सप्त सागराः ॥ १७ क्षुब्धानां सागराणां च पातालतलवासिनः । व्यथिताः पन्नगाः सर्वे दानवाश्च सहस्रशः ॥ १८ चकम्पे मेदिनी कृत्स्ना सशैलवनकानना। भास्करौ निष्प्रभश्चासीन्न बवौ चापि मारुतः ॥ १९ ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः । चिन्तामापेदिर सर्वे मकिनरमहोरगाः ॥ २० स्वस्ति गोब्राह्मणेभ्योऽस्तु लोकास्तिष्ठन्तु शाश्वताः । जयतां राघवः संख्ये रावणं राक्षसेश्वरम् ॥ २१ एवं जपन्तोऽपश्यंस्ते देवाः सर्षिगणास्तदा । रामरावणयोर्युद्धं सुधोरं रोमहर्षणम् ॥ २२ गन्धर्वाप्सरसां सङ्घा दृष्ट्वा युद्धमनूपमम् । गगनं गगनाकारं सागरः सागरोपमः ॥ २३ रामरावणयोर्युद्धं रामरावणयोरिव । एवं ब्रुवन्तो ददृशुस्तघुद्धं रामरावणम् ॥ २४ ततः क्रुद्धो महाबाहू रघूणां कीर्तिवर्धनम् । संधाय धनुषा रामः क्षुरमाशीविषोपमम् ॥ २५ रावणम्य शिरोऽच्छिन्दच्छ्रीमज्ज्वलितकुण्डलम् । तच्छिरः पतितं भूमौ दृष्टं लोकैस्त्रिभिम्नदा ॥ २६ तम्यैव सदृशं चान्यद्रावणस्योत्थिनं शिरः । नत्क्षिप्रं क्षिप्रहम्तेन रामेण क्षिपकारिणा ॥ २७ द्वितीयं रावणशिरश्छिन्नं संयनि मायकैः । छिन्नमात्रं तु नच्छीप पुनरग्न्यत् दृश्यते ॥ २८ तदप्यशनिसंकाशैश्छिन्नं रामेण सायकैः । एयेमेकशनं छिन्नं शिग्सां तुल्यवर्चमाम् ॥ २९ न चैव रावणस्यान्तो दृश्यने जीविनक्षये । ततः सर्वास्त्रविद्वीर: कौसल्यानन्दवर्धनः ॥ ३० मार्गणैर्बहुभिर्युक्तश्चिन्तयामास राघवः । मारीचो निहतो थैम्तु ग्वरो यैस्तु सदृपणः ॥ ३१ त्र्कैञ्चरण्ये विराधन्तु कबन्धो दण्डकावने । यैः साला गिरयो भग्ना वाली च क्षुभितोऽम्बुधिः ॥ ३२ त इमे सायकाः सर्वे युद्धे प्रात्ययिका मम । किं नु तत्कारणं येन रावणे मन्दतंजसः ॥ ३३ इति चिन्तापरश्चासीदप्रमत्तश्च संयुगे । ववर्ष शरवर्षाणि राघवो रावणारसि ॥ ३४ रावणोऽपि तनः क्रुद्धो रथस्थो राक्षसेश्वरः । गदामुसलवर्षेण रामं प्रत्यर्दयद्रणे ॥ ३५ तत्प्रवृत्तं महाधुद्धं तुमुलं रोमहर्षणम् । अन्तरिक्षे च भूमौ च पुनश्च गिरिमूर्धनि ॥ ३६ देवदानवयक्षाणां पिशाचोरगरक्षमाम् । पश्यतां तन्महघुद्धं सर्वरात्रमवर्तत ॥ ३७ नैव रात्रं न दिवसं न मुहूर्त न च क्षणम् । रामगवणयोर्युद्धं विराममुपगच्छति ॥ ३८ १. एवमेव शनम् ति। २. इदमधम् च. छ. नास्ति ।