पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/९२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८६६
श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे


प्रगृह्य विपुलां घोरां महीधरसमां शिलाम् । चिक्षेप च महातेजास्तद्वधाय हरीश्वरः ।। १२
तामापतन्ती सहसा शिलां दृष्ट्वा महोदरः। असंभ्रान्तस्ततो बाणैर्निर्बिभेद दुरासदाम् ॥ १३
रक्षसा तेन बाणौघैनिकृत्ता सा सहस्रधा । निपपात शिला भूमौ गृध्रचक्रमिवाकुलम् ।।१४
तां तु भिन्नां शिलां दृष्ट्वा सुग्रीवः क्रोधमूर्छितः । सालमुत्पाट्य चिक्षेप राक्षसे रणमूर्धनि ॥१५
शरैश्च विददारैनं शूरः परपुरंजयः । स ददर्श ततः क्रुद्धः परिघं पतितं भुवि ॥१६
आविध्य तु स तं दीप्तं परिघं तस्य दर्शयन् । परिघाग्रेण वेगेन जघानास्य हयोत्तमान् ॥ १७
तस्माद्धतहयाद्वीरः सोऽवप्लुत्य महारथान् । गदां जग्राह संक्रुद्धो राक्षसोऽथ महोदरः ॥ १८
गदापरिघहस्तौ तौ युधि वीरौ समीयतुः । नर्दन्तौ गोवृषप्रखौ घनाविव सविद्युतौ ॥१९
ततः क्रुद्धो गदां तम्मै चिक्षेप रजनीचरः। ज्वलन्ती भास्कराभासां सुग्रीवाय महोदरः ॥ २०
गदां तां सुमहाघोरामापतन्ती महाबलः । सुग्रीवो रोषताम्राक्षः समुद्यम्य महाहवे ॥ २१
आजघान गदां तस्य परिघेण हरीश्वरः । पपात स गदोद्भिन्नः परिघस्तस्य भूतले ।। २२
ततो जग्राह तेजस्वी सुग्रीवो वसुधानलात् । आयसं सुमलं घोरं सर्वतो हेमभूषितम् ॥ २३
स तमुद्यम्य चिक्षेप सोऽप्यन्यां व्याक्षिपद्गदाम् । भिन्नावन्योन्यमासाद्य पेततुर्धग्णीतले ॥ २४
ततो भग्नप्रहरणौ मुष्टिभ्यां तौ समीयतुः । तेजोबलममाविष्टौ दीप्ताविव हुताशनौ ।।२५
जघ्नतुस्तौ तदान्योन्यं नेदतुश्च पुनः पुन । तलैश्चान्योन्यमाहत्य पेततुर्धरणीतले ।। २६
उत्पेततुस्ततस्तूर्णं जध्नतुश्च परस्परम् । भुजैश्चिक्षिपतुर्वीरावन्योन्यमपराजितौ ॥२७
जग्मुतुस्तौ श्रमं वीगै बाहुयुद्धे परंतपौ । आजहार ततः खङ्गमदूरपरिवर्तिनम् ।।२८
राक्षसश्चर्मणा सार्धं महावेगो महोदरः । तथैव च महाखङ्गं चर्मणा पतितं सह ।।२९
जग्राह वानरश्रेष्ठः सुग्रीवो वेगवत्तरः । तौ तु रोषपरीताङ्गौ नर्दन्तावभ्यधावताम् ॥३०
उद्यतासी रणे हृष्टौ युधि शस्त्रविशारदौ । दक्षिणं मण्डलं चोभौ सुतूर्णं संपरीयतुः ।।३१
अन्योन्यमभिसंक्रुद्धौ जये प्रणिहितावुभौ। स तु शूरो महावेगो वीर्यश्लाघी महोदरः ॥ ३२
महाचर्मणि तं खड्गं पातयामास दुर्मनिः । लग्नमुत्कर्षतः खड्गं खड्गेन कपिकुञ्जरः ।। ३३
जहार सशिरस्त्राणं कुण्डलोपहितं शिरः । निकृत्तशिरसस्तस्य पतितस्य महीतले ।।३४
तद्बलं राक्षसेन्द्रस्य दृष्ट्वा तत्र न तिष्ठते । हत्वा तं वानरैः सार्धं ननाद मुदिता हरिः ॥ ३५
चुक्रोध च दशग्रीवो बभौ हृष्टश्च राघवः । विषण्णवदनाः सर्वे राक्षसा दीनचेतसः ।।३६
विद्रवन्ति ततः सर्वे भयवित्रस्तचेतमः ॥
महोदर नं विनिपात्य भूमौ महागिरेः कीर्णमिवैकदेशम् ।
सूर्यात्मजस्तत्र रराज लक्ष्म्या सूर्यः स्वतेजोभिरिवाप्रधृष्यः । ३७