पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/९२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८६७
एकोनशततमः सर्गः


अथ विजयमवाप्य वानरेन्द्रः समरमुखे सुरयक्षसिद्धसङ्घैः ।
अवनितलगतैश्च भूतसङ्घैर्हरुषसमाकुलितैः स्तुतो महात्मा ॥३८

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम्

युद्धकाण्डे महोदरवधो नाम अष्टनवतितमः सर्गः

एकोनशततमः सर्गः

महापार्श्ववधः

महोदरे तु निहते महापार्थो महाबलः । सुग्रीवेण समीक्ष्याथ क्रोधात् संरक्तलोचनः ॥ १
अङ्गदम्य चमूं भीमां क्षोभयामास सायकैः । स वानराणां मुख्यानामुत्तमाङ्गानि सर्वशः ॥ २
पातयामास कायेभ्यः फलं वृन्तादिवानिलः । केषांचिदिषुभिर्बाहून् स्कन्धांश्चिच्छेद राक्षसः ।।३
वानराणां सुसंक्रुद्धः पार्श्वं केषां व्यदारयत् । तेऽर्दिता बाणवर्षेण महापार्श्वेन वानराः ।।४
विषादविमुखाः सर्वे बभूवुर्गतचेतसः । निरीक्ष्य बलमुद्विग्नमङ्गदो राक्षसार्दितम् ।।५
वेगं चक्रे महाबाहुः समुद्र इव पर्वणि । आयमं परिघं गृह्य सूर्यरश्मिसमप्रभम् ।।६
समरे वानरश्रेष्ठो महापार्श्वे न्यपातयत् । स तु तेन प्रहारेण महापार्श्वो विचेतनः ।।७
ससूतः स्यन्दनात्तस्माद्विसंज्ञः प्रापतद्भुवि । सर्क्षराजस्तु तेजम्बी नीलाञ्जनचयोपमः ।।८
निष्पत्य सुमहावीर्यः स्वाद्व्यूहान्मेघसंनिभात् । प्रगृह्य गिरिशृङ्गाभां क्रुद्धः सुविपुलां शिलाम् ।।९
अश्वाञ्जघान तरसा स्यन्दनं च बभञ्ज तम् । मुहूर्ताल्लब्धसंज्ञस्तु महापार्श्वे महाबलः ॥१०
अङ्गदं बहुभिर्बाणैर्भूयस्तं प्रत्यविव्यत । जाम्बवन्तं त्रिभिर्बाणैराजघान स्तनान्तरे ।।११
ऋक्षराजं गवाक्षं च जघान बहुभिः शरैः। जाम्बवन्तं गवाक्षं च स दृष्ट्वा शरपीडितौ ॥ १२
जग्राह परिघं धोरमङ्गन्दः क्रोधमूर्छितः । तस्याङ्गदः प्रकुपितो राक्षसस्य तमायसम् ।। १३
दूरस्थितम्य परिघं रविरश्मिसमप्रभम् । द्वाभ्यां भुजाभ्यां संगृह्य भ्रामयित्वा च वेगवान् ॥ १४
महापार्श्वस्य चिक्षेप वधार्थं वालिनः सुतः । स तु क्षिप्तो बलवता परिघस्तस्य रक्षसः ।।१५
धनुश्च सशरं हस्ताच्छिरस्त्रं चाप्यपातयत् । तं समासाद्य वेगेन वालिपुत्रः प्रतापवान् ॥ १६
तलेनाभ्यहनत् क्रुद्धः कर्णमूले सकुण्डले । स तु क्रुद्धो महावेगो महापार्श्वे महाद्युतिः ।। १७
करेणैकेन जग्राह सुमहान्तं परश्वधम् । तं तैलधौतं विमलं शैलसारमयं दृढम् ॥ १८
राक्षसः परमक्रुद्धो वालिपुत्रे न्यपातयत् । तेन वामांसफलके भृशं प्रत्यवपातितम् ॥१९