पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चषष्टितमः सर्गः ७८७

बहुव्यामांश्च परिधान् गदाश्च मुसलानि च । तालम्कन्धांश्च विपुलान् क्षेपणीयान् दुरासदान् ।।
अथान्यद्वपुरादाय दारुणं रोमहर्षणम् । निष्पपात महातेजा. कुम्भकर्णो महाबलः ॥
धनु:शतपरीणाहः स षट्शतसमुच्छ्रितः । रौद्रः शकटचक्राक्षो महापर्वतसंनिभः ॥
संनिवर्त्य च रक्षांसि दग्धशलोपमो महान् । कुम्भकर्णो महावक्त्रः प्रमन्निदमब्रवीत् ।। ४२
अद्य वानरमुख्यानां तानि वृथानि भागशः । निर्दहियामि संक्रुद्धः शलभानिव पावकः ।। ४३
नापराध्यन्ति मे कामं वानरा वनचारिणः । जानिरस्मद्विधानां मा पुरोद्यानविभूषणम् ॥ ४४
पुररोधस्य मूलं नु राघवः महलक्ष्मणः । हते तम्मिन् हतं सर्व तं वधिष्यामि संयुगे । ४५
एवं नस्य ब्रुवाणस्य कुम्भकर्णम्य गक्षसाः । नादं चकुर्महाघोरं कम्पयन्त इवार्णवम् ।।
नम्य निष्पततम्तृणं कुम्भकर्णम्य धीमतः । बभूवुर्घोररूपाणि निमित्तानि समन्ततः ।।
उल्काशनियुता मेघा बभूवुगर्दभारुणाः । ससागरवना चैव वसुधा समकम्पत ।।
घोररूपाः शिवा नेदुः मन्चालकवलैमुम्वै.'। मण्डलान्यपसन्यानि बबन्धुश्च विहङ्गमाः ॥ ४९
निप्पपात च मालेच गृध्रोऽम्य पथि गच्छत. । प्रास्फुरन्नयनं चाम्य मव्यो बाहुरकम्पत ॥ ५०
निपपात तढा चोलका ज्वलन्ती भीमनि म्वना। आदित्यो निष्प्रभश्चामीन्न प्रवाति सुखोऽनिल. ।।
अचिन्तयन् महोत्पानानुत्थितान् रोमहर्षणान् । निर्ययौ कुम्भकर्णस्तु कृतान्तबलचोदितः ॥ ५२
म लवयित्वा प्राकारं पद्यां पर्वनसंनिभः । तदर्शाभ्रघनप्रग्व्यं वानरानीकमद्भुतम् ॥ ५३
ते
दृष्ट्वा राक्षमश्रेष्ठं वानराः पर्वतीपमम् । वायुनुन्ना इव धना ययुः सर्वा दिशस्तदा ।।
तद्वानरानीकमतिप्रचण्डं दिशो द्रवद्भिन्नमिवाभ्रजालम् ।
स कुम्भकर्ण. समवेक्ष्य हर्षान्ननाद भूयो घनवद्धनाभः ॥
५५
ते तस्य घोर निनदं निशम्य यथा निनादं दिवि वारिदस्य ।
पेतुर्धरण्यां बहवः प्लवङ्गा निकृत्तमूला इव सालवृक्षाः ॥
विपुलपरिघवान् स कुम्भकर्णो रिपुनिधनाय विनि.सृतो महात्मा ।
कपिगणभयमाददत् सुभीमं प्रभुग्वि किङ्करदण्डवान् युगान्ते ।।

इत्यार्षे श्रीमद्रामायणे वाल्मोक्रीये अदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् युद्धकाण्डे कुम्भकर्णाभिषेणनं नाम पञ्चषष्टितमः सर्ग: