पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/७८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

षट्त्रिंशः सर्गः ७२५

कालो गृहाणि सर्वेषां काले कालेऽन्ववेक्षते । एतान्यन्यानि दुष्टानि निमित्तान्युत्पतन्ति च ।।
विष्णुं मन्यामहे रामं मानुषं देहमास्थितम् । न हि मानुषमात्रोऽसौ राघवो दृढविक्रमः ॥ ३६
येन बद्धः समुद्रस्य म सेतुः परमाद्भुतः । कुरुष्व नरराजेन सन्धि रामेण रावण ।। ३७
ज्ञात्वा प्रधार्य कार्याणि क्रियतामायतिक्षमम् ।।
इदं वचस्तत्र निगद्य माल्यवान् परीक्ष्य रक्षोऽधिपतेर्मनः पुनः ।
अनुत्तमेषूत्तमपौरुषो बली बभूव तूष्णीं समवेक्ष्य रावणम् ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विशतिसहस्रिकायां संहितायाम् युद्धकाण्डे माल्यवदुपदेशो नाम पञ्चत्रिंशः सर्ग: षट्त्रिंशः सर्गः पुरद्वाररक्षा

तत्तु माल्यवतो वाक्यं हिनमुक्तं दशाननः । न मर्षयनि दुष्टात्मा कालस्य वशमागतः ॥ १
स बवा झुकुटि वक्त्रे क्रोधस्य वशमागतः । अमर्षात्परिवृत्ताक्षो माल्यवन्तमथाब्रवीत् ॥ २
हितबुद्ध्या यदहितं वचः परुषमुच्यते । परपक्षं प्रविश्यैव नैतच्छोत्रं गतं मम ॥ ३
मानुषं कृपणं राममेकं शाग्वामृगाश्रयम् । समर्थ मन्यमे केन त्यक्तं पित्रा वनालयम् ।।
रक्षसामीश्वरं मां च देवतानां भयंकरम् । हीनं मां मन्यसे केन ह्यहीनं सर्वविक्रमैः ।।
वीरद्वेषेण वा शके पक्षपातेन वा रिपोः । त्वयाहं पाषाण्युक्तः परप्रोत्साहनेन वा ।।
प्रभवन्तं पदम्थं हि परुषं कोऽभिधास्यति । पण्डितः शास्त्रतत्त्वज्ञो विना प्रोत्साहनाद्रियोः ॥७
आनीय च वनात्सीतां पमहीनामिव श्रियम् । किमर्थं प्रतिदास्यामि राघवस्य भयादहम् ॥ ८
वृतं वानरकोटीभिः ससुग्रीवं सलक्ष्मणम् । पश्य कैश्चिदहोमिस्त्वं राघवं निहतं मया ।।
द्वन्द्वे यस्य न तिष्ठन्ति दैवतान्यपि संयुगे। स कस्माद्रावणो युद्धे भयमाहारयिष्यति ॥ १०
द्विधा भज्येयमप्येवं न नमेयं तु कस्यचित् । एष मे सहजो दोषः स्वभावो दुरतिक्रमः ।। ११
यदि तावत्समुद्रे तु सेतुबद्धो यदृच्छया । रामेण विस्मयः कोऽत्र येन ते भयमागतम् ।। १२
स तु तीर्णवं रामः सह वानरसेनया । प्रतिजानामि ते सत्यं न जीवन् प्रतियास्यति ॥१३
एवं ब्रुवाणं संरब्धं रुष्टं विज्ञाय रावणम् । ब्रीडितो माल्यवान् वाक्यं नोत्तरं प्रत्यपद्यत ॥ १४