पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/७८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चत्रिंशः सर्ग ७२३

जनन्या राक्षसेन्द्रो वै त्वन्मोक्षार्थं बृहद्वचः । अविद्धेन च वैदेहि मन्त्रिवृद्धेन बोधितः ॥ २०
दीयतामभिसत्कृत्य मनुजेन्द्राय मैथिली । निदर्शनं ते पर्याप्तं जनस्थाने यदद्भुतम् ॥ २१
लङ्घनं च समुद्रस्य दर्शनं च हनूमतः । वधं च रक्षमा युद्धे कः कुर्यान्मानुषो भुवि ।। २२
एवं स मन्त्रिवृद्धेन मात्रा च बहु भाषितः । न त्वामुत्सहते मोक्तुमर्थमर्थपरो यथा ।। २३
नोत्सहत्यमृतो मोक्तुं युद्धे त्यामिति' मैथिलि । सामात्यस्य नृशंसम्य निश्चयो ह्येष वर्तते ॥२४
तदेषा निश्चिता बुद्धिर्मृत्युलोभादुपस्थिता। भयान्न सक्तस्त्वां मोक्तुमनिरस्तम्तु संयुगे ॥ २५
राक्षसानां च सर्वपामात्मनश्च वधेन हि । निहत्य रावणं संख्ये सर्वथा निशितैः शरैः ॥ २६
प्रतिनेष्यति रामस्त्वामयोध्यामसितेक्षणे । एतस्मिन्नन्तरे शब्दो मेरीशजसमाकुलः ॥
श्रुती वानरसैन्यानां कम्पयन् धरणीतलम् ॥
श्रुत्वा तु तद्वानरसैन्यशब्दं लक्कागता गक्षमराजभृत्याः ।
नप्टौजसो देन्यपरीतचेष्टाः श्रेयो न पश्यन्ति नृपस्य दोषैः ।।

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विशतिसहस्रिकायां संहितायाम् युद्धकाण्डे रावणनिश्चयकथनं नाम चतुस्त्रिंशः सर्ग: पञ्चत्रिंशः सर्गः माल्यवदुपदेशः

तेन शङ्खविमिश्रेण भेरीशब्देन नादिना । उपयाति महाबाहू राम. परपुरंजयः ॥
तं निनादं निशम्याथ गवणो राक्षसेश्वरः । मुहूर्न ध्यानमाम्थाय सचिवानभ्युदैक्षत ।। २
अथ तान् मचिवांतत्र सर्वानाभाष्य रावणः । सभां सनादयन् सर्वामित्युवाच महाबलः ।। ३
जगत्संतापनः कोऽगर्हयन् राक्षसेश्वरः । तरणं सागरस्यापि विक्रमं बलसचयम् ॥
यदुक्तवन्तो रामस्य भवन्तस्तन्मया श्रुतम् । भवतश्चाप्यहं वेनि युद्धे सत्यपराक्रमान्
तूष्णीकानीक्षतोऽन्योन्यं विदित्वा रामविक्रमम् । ततस्तु सुमहाप्राज्ञो माल्यवान्नाम राक्षसः ।।
रावणम्य वच. श्रुत्वा इति मातामहोऽब्रवीत् । विद्यास्वभिविनीतो यो राजा राजन्नयानुगः ।।
स शास्ति चिम्मैश्वर्यमरीश्च कुरुते वशे । संदधानो हि कालेन विगृहंश्चारिभिः सह ।।
स्वपक्षवर्धनं कुर्वन् महदेश्वर्यमश्नुते । हीयमानेन कर्तव्यो राज्ञा सन्धिः समेन च ॥