पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/७७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

एकोनत्रिंशः सर्गः

महावृन्दसहसाणां शतं पद्ममिति स्मृतम् । शतं पद्मसहस्राणां महापद्ममिति स्मृतम् ।।३६
महापद्मसहसाणां शतं खर्वमिहोच्यते । शतं खर्वसहस्राणां महाखर्वमिति स्मृतम् ।।३७
महाखर्वसहस्राणां समुद्रमभिधीयते । शतं समुद्रसाहस्रमोघ इत्यभिधीयते ।।३८
शतमोघसहस्राणां महौध इति विश्रुतः । एवं कोटिसहस्रेण शङ्खानां च शतेन च ॥३९
महाशङ्खसहस्रेण तथा बृन्दशतेन च । महावृन्दसहस्रेण तथा पद्मशतेन च ॥४०
महापद्मसहस्रेण तथा खर्वशतेन च । समुद्रण शतेनैव महौधेन तथैव च ॥४१
एष कोटिमहौधेन समुद्रसदृशेन च । विभीषणेन सचिवै राक्षसैः परिवारितः ।।४२
सुग्रीवो वानरेन्द्रस्त्वां युद्धार्थमभिवर्तते । महाबलवृतो नित्यं महाबलपराक्रमः ।।४३
इमां महाराज समीक्ष्य वाहिनीमुपस्थितां प्रज्वलितमहोपमाम्।
ततः प्रयत्नः परमो विधीयतां यथा जयः स्यान्न परैः पराजयः ॥४४

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विशतिसहनिकायां संहितायाम् युद्धकाण्डे मैन्दादिपराक्रमाख्यानं नाम अष्टाविंशः सर्ग:

एकोनत्रिंशः सर्गः शार्दूलादिचारप्रेषणम्

शुकेन तु ममाग्न्याताम्तान् दृष्ट्वा हरियूथपान् । लक्ष्मणं च महावीर्य भुजं रामस्य दक्षिणम् ॥ १
समीपम्थं च रामस्य भ्रातरं म्वं विमीषणम् । सर्ववानरराजं च सुग्रीवं भीमविक्रमम् ।।२
गनं गवाक्षं गवयं मैन्दं द्विविदमेव च । अङ्गदं चैव बलिनं वज्रहस्तात्मजात्मजम् ।।३
हनुमन्तं च विक्रान्तं जाम्बवन्तं च दुर्जयम् । सुपेणं कुमुदं नीलं नलं च प्लवगर्षभम् ।।४
किंचिदाविग्रहृदयो जानक्रोधश्च रावणः । भर्सयामाम तौ वीरौ कथान्ते शुकसारणी ।।५
अधोमुखौ तौ प्रणतायब्रवीन्छुकमाग्णौ । रोषगद्गदया वाचा संरब्धः परुपं वचः ॥६
न तावत्सदृशं नाम सचिवैरुपजीविभिः । विप्रियं नृपतेर्वक्तुं निग्रहप्रग्रहे प्रभोः ॥७
रिपूणां प्रतिकूलानां युद्धार्थमभिवर्तताम् । उभाभ्यां सदृशं नाम वक्तुमग्रस्तवे स्तवम् ।।८
आचार्या गुरवो वृद्धा वृथा वां पर्युपासिताः । सारं यद्राजशास्त्राणामनुजीव्यं न गृह्यते ।।९
गृहीतो का न विज्ञातो भारो ज्ञानस्य चोह्यते । ईदृशैः सचिवैर्युक्तो मूखैर्दिष्ट्या धराम्यहम् ||१०
किं नु मृत्योर्मयं नास्ति वक्तुं मां परुपं वचः। यस्य मे शासतो जिह्वा प्रयच्छति शुभाशुभम् ॥११
अप्येव दहनं स्पृष्टा वने तिष्ठन्ति पादपाः । राजदोषपरामृष्टास्तिष्ठन्ते नापराधिनः ।। १२