पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/७७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

७१२ श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे

यं तु पश्यसि तिष्ठन्तं प्रभिन्नमिव कुञ्जरम् । यो बलात्क्षोभयेत्क्रुद्धः समुद्रमपि वानरः ।।८
एषोऽभिगन्ता लङ्काया वैदेह्यास्तव च प्रभो । एनं पश्य पुरा दृष्टं वानरं पुनरागतम् ।।९
ज्येष्ठः केसरिणः पुत्रो वातात्मज इति श्रुतः । हनुमानिति विख्यातो लङ्घितो येन सागरः।।१०
कामरूपी हरिश्रेष्ठो बलरूपसमन्वितः । अनिवार्यगतिश्चैव यथा सततगः प्रभुः ।।११
उद्यन्तं भास्करं दृष्ट्वा बालः किल पिपासितः । त्रियोजनसहसं तु अध्वानमवतीर्य हि ॥ १२
आदित्यमाहरिष्यामि न मे क्षुत्प्रतियास्यति । इति संचिन्त्य मनसा पुरैष बलदर्पितः॥ १३
अनाधृष्यतमं देवमपि देवर्षिदानवैः । अनासाद्यैव पतितो भास्करोदयने गिरौ ।।१४
पतितस्य कपेरस्य हनुरेका शिलातले। किंचिद्भिन्ना दृढहनोईनुमानेष तेन वै ।। १५
सत्यमागमयोगेन ममैष विदितो हरिः । नास्य शक्यं बलं रूपं प्रभावो वापि भापितुम् ।। १६
एष आशंसते लक्कामेको मर्दितुमोजसा । येन जाज्वल्यते सौम्य धूमकेतुस्तवाद्य वै ।। १७
लङ्कायां निहितश्चापि कथं न सरसे कपिम् । यश्चैपोऽनन्तरः शरः श्यामः पद्मनिभेक्षणः ॥१८
इक्ष्वाकूणामतिरथी लोके विग्व्यातपौरुषः । यस्मिन्न चलने धर्मा यो धर्मन्नातिवर्तते ।।१९
यो ब्राह्ममत्रं वेदांश्च वेद वेदविदां वरः । यो भिन्द्याद्गगनं बाणैः पर्वतानपि दारयेत् ।। २०
यस्य मृत्योरिव क्रोधः शक्रम्येव पराक्रमः । यस्य भार्या जनस्थानात्सीता चापहृता त्वया ॥ २१
स एष रामस्त्वां योद्धं राजन् समभिवर्तते । यम्यैष दक्षिणे पार्चे शुद्धजाम्बूनदप्रभः ।। २२
विशालवक्षास्ताम्राक्षो नीलकुश्चितमूर्धजः । एषोऽस्य लक्ष्मणो नाम भ्राता प्राणयमः प्रियः ॥२३
नये युद्धे च कुशलः सर्वशास्त्रविशारदः । अमपी दुर्जयो जेना विक्रान्तो बुद्धिमान् बली॥२५
रामस्य दक्षिणो बाहुनिन्यं प्राणो बहिश्चरः । न ह्येप गवन्धम्याथै जीवितं परिरक्षनि ।।२५
एपैवाशंमने युद्ध निहन्तुं सर्वगक्षमान् । यस्तु सन्यमसौ पक्षं गमम्याश्रित्य निष्ठनि ।।२६
रक्षोगणपरिक्षिप्तो राजा ह्येप विभीषणः । श्रीमना राजराजेन लङ्कायामभिपचितः ॥ २७
त्यामेव प्रतिसंरब्धो युद्धायपोऽभिवर्तते । यं तु पश्यसि निष्ठन्तं मध्ये गिरिमिवाचलम् ।। २८
मर्वशग्वामृगेन्द्राणां भर्तारमपराजिनम् । नजमा यशमा बुद्ध्या ज्ञानेनाभिजनेन च ॥२९
यः कपीनतिबभ्राज हिमवानिव पर्वनान् । किष्किन्धां य: ममध्यान्तं गुहां सगहनद्रुमाम् ।।३०
दुर्गा पर्वतदुर्गस्था प्रधानैः सह यूथपैः । यम्यषा काञ्चनी माला शोभते शतपुष्करा ॥३१
कान्ता देवमनुष्याणां यम्यां लक्ष्मीः प्रतिष्ठिता। एतां च मालां तारां च कपिराज्यं च शाश्वतम्।।३२
सुप्रीवो वालिनं हत्वा गमेण प्रतिपादिनः । शतं शतसहस्राणां कोटिमाहुर्मनीषिणः ।। ३३
शतं कोटिसहस्राणां शङ्ख इत्यभिधीयते । शतं शतसहस्राणां महाशङ्ख इति स्मृतम् ।।३४
महाशसहस्राणां शतं वृन्दमिति स्मृतम् । शतं वृन्दसहस्राणां महावृन्दमिति स्मृतम् ॥ ३५