पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/७६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७०६
श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे


सागरे सेतुबन्धं तु न श्रद्दध्यां कथंचन । अवश्यं चापि संख्येयं तन्मया वानरं बलम् ।।३
भवन्तौ वानरं सैन्यं प्रविश्यानुपलक्षितौ । परिमाणं च वीर्यं च ये च मुख्याः प्लवङ्गमाः ॥ ४
मन्त्रिणो ये च रामस्य सुग्रीवस्य च संमताः । ये पूर्वमभिवर्तन्ते ये च शूराः प्लवङ्गमाः ।।५
स च सेतुर्यथा बद्धः सागरे सलिलाशये । निवेशं च यथा तेषां वानराणां महात्मनाम् ॥ ६
रामस्य व्यवसायं च वीर्यं प्रहरणानि च । लक्ष्मणस्य च वीरस्य तत्त्वतो ज्ञातुमर्हथः ।।७
कश्च सेनापतिस्तेषां वानराणां महौजसाम् । एतज्ज्ञात्वा यथातत्त्वं शीघ्रमागन्तुमर्हथः ।।८
इति प्रतिसमादिष्टौ राक्षसौ शुकसारणौ । हरिरूपधरौ वीरौ प्रविष्टौ वानरं बलम् ।।९
ततस्तद्वानरं सैन्यमचिन्त्यं रोमहर्षणम् । संख्यातुं नाध्यगच्छेतां तदा तौ शुकसारणौ ॥ १०
संस्थितं पर्वताग्रेषु निर्झरेषु गुहासु च । समुद्रस्य च तीरेषु वनेषूपवनेषु च ॥ ११
तरमाणं च तीर्णं च तर्तुकामं च सर्वशः । निविष्टं निविशच्चैव भीमनादं महाबलम् ।। १२
तद्बलार्णवमक्षोभ्यं ददृशाते निशाचरौ । तौ ददर्श महातेजाः प्रनिच्छन्नौ विभीषणः ।। १३
आचचक्षेऽथ रामाय गृहीत्वा शुकसारणौ । तस्येमौ राक्षसेन्द्रम्य मन्त्रिणौ शुकसारणौ ।। १४
लङ्कायाः समनुप्राप्तौ चारौ परपुरंजय । तौ दृष्ट्वा व्यथितौ रामं निगशौ जीविते तदा ॥ १५
कृताञ्जलिपुटौ भीतौ वचनं चेदमूचतुः । आवामिहागतौ सौम्य रावणप्रहितावुभौ ।।१६
परिज्ञातुं बलं कृत्स्नं तवेदं रघुनन्दन । तयोस्तद्वचनं श्रुत्वा रामो दशरथात्मजः ॥१७
अब्रवीत्प्रहसन् वाक्यं सर्वभूतहिते रतः । यदि दृष्टं बलं कृत्स्नं वयं वा सुपरीक्षिताः ॥१८
यथोक्तं वा कृतं कार्यं छन्दतः प्रतिगम्यताम् । अथ किंचिददृष्टं वा भूयस्तद्द्रष्टुमर्हथः ।। १९
विभीषणो वा कार्त्स्न्य्येन भूयः संदर्शयिष्यति । न चेदं ग्रहणं प्राण्य भेतव्यं जीवितं प्रति ॥
न्यस्तशस्त्रौ गृहीतौ वा न दृतौ वधमर्हथः । प्रच्छन्नौ च विमुञ्चौतौ चारौ रात्रिंचरावुभौ ।।
शत्रुपक्षस्य सततं विभीषणविकर्षणौ । प्रविश्य नगरींं लङ्कां भवद्भ्यां धनदानुजः ॥ २२
वक्तव्यो रक्षसां गजा यथोक्तं वचनं मम । यद्बलं च समाश्रित्य सीता मे ह्र्तवानसि ॥ २३
तद्दर्शय यथाकामं ससैन्यः सहबान्धवः। श्वः कल्ये नगरी लङ्कां सप्राकारां सतोरणाम् ॥२४
रक्षसां च बलं पश्य शरैविध्वंसितं मया । क्रोधं भीममहं मोक्ष्ये ससैन्ये त्वयि रावण ॥ २५
श्वः कल्ये वज्रवान् वज्रं दानवेष्विव वासवः । इनि प्रतिसमादिष्टौ राक्षसौ शुकसारणौ ।।
जयेति प्रतिनन्द्यौतौ राघवं धर्मवत्सलम् । आगम्य नगरीं लङ्कामब्रूतां राक्षसाधिपम् ।। २७
विमीषणगृहीतौ तु वधार्हौं राक्षसेश्वर । दृष्टा धर्मात्मना मुक्तौ रामेणामिततेजसा ।।२८