पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/७६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७०५
पञ्चविंशः सर्गः


क्रुद्धैस्तैरहमुत्प्लुत्य दृष्टमात्रैः प्लवङ्गमैः । गृहीतोऽस्म्यपि चारब्धो हन्तुं लोप्तुं च मुष्टिभिः ।।
नैव संभाषितुं शक्याः संप्रश्नोऽत्र न लभ्यते । प्रकृत्या कोपनास्तीक्ष्णा वानरा राक्षसाधिप ।।
स च हन्ता विराधस्य कबन्धस्य खरस्य च । सुग्रीवसहितो रामः सीतायाः पदमागतः ॥३१
स कृत्वा सागरे सेतुं तीर्त्वा च लवणोदधिम् । एष रक्षांसि निर्धूय धन्वी तिष्ठति राघवः ॥
ऋक्षवानरमुख्यानामनीकानि सहस्रशः । गिरिमेघनिकाशानां छादयन्ति वसुंधराम् ।। ३३
राक्षसानां बलौघस्य वानरेन्द्रबलस्य च । नैतयोर्विद्यते सन्धिर्देवदानवयोरिव ।।३४
पुरा प्राकारमायान्ति क्षिप्रमेकतरं कुरु । सीतां वास्मै प्रयच्छाशु युद्धं वापि प्रदीयताम् ।।
शुकस्य वचनं श्रुत्वा रावणो वाक्यमब्रवीत् । रोषसंरक्तनयनो निर्दहन्निव चक्षुषा ॥३६
यदि मां प्रति युध्येरन् देवगन्धर्वदानवाः । नैव सीतां प्रयच्छामि सर्वलोकभयादपि ॥३७
कदा नामाभिधावन्ति राघवं मामकाः शराः । वसन्ते पुष्पितं मत्ता भ्रमरा इव पादपम् ।।
कदा तृणीशथैदीप्तैर्गणशः कार्मुकच्युतैः । शरैरादीपयास्येनमुल्काभिरिव कुञ्जरम् ।। ३९
तच्चास्य बलमादास्ये बलेन महता वृतः । ज्योतिषामिव सर्वेषां प्रभामुद्यन् दिवाकरः ॥ ४०
सागरस्येव मे वेगो मारुतस्येव मे गतिः । न हि दाशरथिर्वेद तेन मां योद्धुमिच्छति ॥
न मे तूणीशयान बाणान् सविषानिव पन्नगान् । रामः पश्यति संग्रामे तेन मां योद्धुमिच्छति ।।
न जानाति पुरा वीर्य मम युद्धे स राघवः । मम चापमयी वीणां शरकोणैः प्रवादिताम् ।।४३
ज्याशब्दतुमुलां घोरामार्तगीतमहास्वनाम । नाराचनलसन्नादां तां ममाहितवाहिनीम् ।।४४
अवगाह्य महारङ्गं वादयिष्याम्यहं रणे ।।

न वासवेनापि सहस्रचक्षुषा यथास्मि शक्यो वरुणेन वा स्वयम् ।


यमेन वा धर्षयितुं शराग्निना महाहवे वैश्रवणेन वा पुनः ।।४५

हत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम्

युद्धकाण्डे रावणप्रतिज्ञा नाम चतुर्विश: सर्ग:

पञ्चविंशः सर्गः

शुकमारणप्रेषणादिकं

सबले सागरं तीर्णे रामे दशरथात्मजे। अमात्यो रावणः श्रीमानब्रवीच्छुकसारणौ ।।१
समग्रं सागरं तीर्णं दुस्तरं वानरं बलम् । अभूतपूर्व रामेण सागरे सेतुबन्धनम् ।।२