पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/७४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६९०
श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे


शीघ्रं व्यादिश नो राजन् वधायैषां दुरात्मनाम् । निपतन्ति हता यावद्धरण्यामल्पतेजसः ॥९
तेषां संभाषमाणानामन्योन्यं स विभीषणः । उत्तरं तीरमासाद्य खस्थ एव व्यतिष्ठत ॥ १०
उवाच च महाप्राज्ञः स्वरेण महता महान् । मुग्रीवं तांश्च संप्रेक्ष्य सर्वान् वानरयूथपान् ॥ ११
रावणो नाम दुर्वृत्तो राक्षसो राक्षसेश्वरः । तस्याहमनुजो भ्राता विभीषण इति श्रुतः ।। १२
तेन सीता जनस्थानाद्धृता हत्वा जटायुषम् । रुद्धा च विवशा दीना राक्षसीमिः सुरक्षिता॥१३
तमहं हेतुभिर्वावयैर्विविधैश्च न्यदर्शयम् । साधु निर्यात्यतां सीता रामायेति पुनः पुनः ॥ १४
स च न प्रतिजग्राह रावणः कालचोदितः । उच्यमानं हितं वाक्यं विपरीत इवौषधम् ॥ १५
सोऽहं परुषितम्तेन दासवच्चावमानितः । त्यक्ता पुत्रांश्च दारांश्च राघवं शरणं गतः ।। १६
सर्वलोकशरण्याय राघवाय महात्मने । निवेदयत मां क्षिप्रं विभीषणमुपस्थितम् ।।१७
एतत्तु वचनं श्रुत्वा सुग्रीवो लघुविक्रमः । लक्ष्मणस्याग्रतो रामं संरब्धमिदमब्रवीत् ।।१८
रावणस्यानुजो भ्राता विभीषण इति श्रुतः । चतुर्भिः सह रक्षोभिर्भवन्तं शरणं गतः ।।१९
मन्त्रे व्यूहे नये चारे युक्तो भवितुमर्हसि । वानराणां च भद्रं ते परेषां च परंतप ।। २०
अन्तर्धानगता ह्येते राक्षसाः कामरूपिणः । शूरश्च निकृतिज्ञाश्च तेषु जातु न विश्वसेत ॥२१
प्रणिधी राक्षसेन्द्रम्य रावणस्य भवेदयम् । अनुप्रविश्य सोऽस्मासु भेदं कुर्यान्न संशयः ।। २२
अथवा स्वयमेवैष छिद्रमासाद्य बुद्धिमान् । अनुप्रविश्य विश्वस्ते कदाचित्प्रहरेदपि ।।२३
मित्राटविबलं चैव मौलं भृत्यबलं तथा । सर्वमेतद्बलं ग्राह्यं वर्जयित्वा द्विषद्बलम् ॥२४
प्रकृत्या राक्षसो ह्येष भ्रातामित्रस्य वै प्रभो । आगतश्च रिपो पक्षात्कथमस्मिन् हि विश्वसेत् ॥
रावणेन प्रणिहितं तमवेहि विभीषणम् । तस्याहं निग्रहं मन्ये क्षमं क्षमवतां वर ॥२६
राक्षसो जिह्मया बुद्धया संदिष्टोऽयमुपस्थितः । प्रहर्तुं मायया छन्नो विश्वस्त त्वयि राघव ॥२७
प्रविष्टः शत्रुसैन्यं हि प्राज्ञः शत्रुस्तर्कितः । निहन्यादन्तरं लब्ध्वा उलूक इव वायमान् ॥ २८
वध्यतामेष दण्डेन तीव्रेण सचिवैः सह । रावणस्य नृशंसस्य भ्राता ह्येष विभीषणः ।।२९
एवमुक्त्वा तु तं रामं बाहिनीपतिः । वाक्यज्ञो वाक्यकुशलं ततो मौनमुपागमत।। ३०
सुग्रीवस्य तु तद्वाक्यं श्रुत्वा रामो महायशाः । समीपस्थानुवाचेदं हनुमत्प्रमुखान् हरीन् ।। ३१
यदुक्तं कपिराजेन रावणावरजं प्रति । वाक्यं हेतुमदर्थ्यं च भवद्भिरपि तच्छ्रुतम् ।। ३२
सुहृदा ह्यर्थकृच्छेषु युक्तं बुद्धिमता सता । समर्थेनापि संदेष्टुं शाश्वती भूतिमिच्छता ॥३३
इत्येवं परिपृष्टास्ते स्वं स्वं मतमतन्द्रिताः । सोपचारं तदा राममूचुहितचिकीर्षवः ॥३५
अज्ञातं नास्ति ते किंचित्त्त्रिषु लोकेषु राघव । आत्मानं सूचयन् राम पृच्छस्यस्मान् सुहृत्तया॥३५
त्वं हि सत्यव्रतः शूगे धार्मिको दृढविक्रमः । परीक्ष्यकारी स्मृतिमान्निसृष्टात्मा सुहृत्सु च॥३६
तस्मादेकैकशस्तावद्ब्रुवन्तु सचिवास्तव । हेनुतो मतिसंपन्नाः समर्थाश्च पुनः पुनः ॥३७