पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/७५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६९१
सप्तदशः सर्गः


इत्युक्ते राघवायाथ मतिमानङ्गदोऽग्रतः । विभीषणपरीक्षार्थमुवाच वचनं हरिः।३८
शत्रोः सकाशात्संप्राप्तः सर्वथा शङ्क्य एव हि । विश्वासयोग्यः सहसा न कर्तव्यो विभीषणः ।।
छादयित्वात्मभावं हि चरन्ति शठबुद्धयः । प्रहरन्ति च रन्ध्रेषु सोऽनर्थः सुमहान् भवेत ॥ ४०
अर्थानर्थौ विनिश्चित्य व्यवसायं भजेत ह । गुणतः संग्रहं कुर्याद्दोपतस्तु विसर्जयेत ॥४१
यदि दोषो महांस्तस्मिंस्त्यज्यतामविशङ्कितम् । गुणान् वापि बहुञ्ज्ञात्वा संग्रहः क्रियतां नृप ॥
शरभस्त्वथ निश्चित्य साध्यं वचनमब्रवीत् । क्षिप्रमस्मिन्नरव्याघ्र चारः प्रनतिविधीयताम् ॥ ४३
प्रणिधाय हि चारेण यथावत्सूक्ष्मबुद्धिना । परीक्ष्य च ततः कार्यो यथान्यायं परिग्रहः ॥ ४४
जाम्बवांस्त्वथ संप्रेक्ष्य शास्त्रबुद्ध्या विचक्षणः। वाक्यं विज्ञापयामास गुणवद्दोपवर्जितम् ॥ ४५
बद्धवैराच्च पापाच्च राक्षसेन्द्राद्विभीषण । अदेशकाले संप्राप्तः सर्वथा शङ्क्यतामयम् ॥ ४६
तता मैन्दस्तु संप्रेक्ष्य नयापनयकोविदः । वाक्यं वचनसंपन्नो बभाषे हेतुमत्तरम् ॥४७
वचनं नाम तस्यैष रावणस्य विभीषण । पृच्छ्यतां मधुरेणायं शनैर्नरवरेश्वर ।।४८
भावमस्य तु विज्ञाय ततस्त्वत्त्वं करिष्यसि । यदि दुष्टो न दुष्टो वा बुद्धिपूर्व नरर्षभ ॥४९
अथ संस्कारसंपन्नो हनूमान सचिवोत्तम । उवाच वचनं श्लक्ष्णमर्थवन्मधुरं लघु ।।५०
न भवन्तं मतिश्रेष्ठं समर्थं वदता वरम् | अतिशाययितुं शक्तो बृहस्पतिरपि ब्रुवन् ॥ ५१
न वादान्नापि महर्षान्नाधिक्यान्न च कामतः । वक्ष्यामि वचनं राजन् यथार्थ राम गौरवात ॥ ५२
अर्थानर्थनिमित्तं हि यदुक्तं सचिवैस्तव । तत्र दोषं प्रपश्यामि क्रिया न ह्युपपद्यते ।। ५३
ऋते नियोगान्सामर्थ्यमवबोद्धुं न शक्यते । सहसा विनियोगो हि दोषवान् प्रतिभाति मा ॥५४
चारप्रणिहितं युक्तं यदुक्तं सचिवैस्तव । अर्थस्यासभवात्तत्र कारणं नोपपद्यते ।।५५
अदेशकाले सप्राप्त इत्ययं यद्विभीषण । विवक्षा तत्र मेऽस्तीयं ना निबोध यथामति ॥५६
स एप देश कालश्च भवतीति यथा तथा । पुरुषात्पुरुषं प्राप्य तथा दोषगुणावपि ।।५७
दौरात्म्यं रावणे दृष्ट्वा विक्रमं च तथा त्वयि । युक्तमागमनं तस्य सदृशं तस्य बुद्धितः॥५८
अज्ञातरूपै पुरुषैः स राजन् पृच्छ्यतामिति । यदुक्तमत्र मे प्रेक्षा काचिदस्ति समीक्षिता ॥५९
पृच्छ्यमानो विशङ्केत सहसा बुद्धिमान् वच । तत्र मित्रं प्रदुष्येत मिथ्या पृष्टं सुखागतम्।।६०
अशक्यः सहसा राजन् भावो वेत्तुं परस्य वै। अन्तः स्वभावैर्गीतैस्तैर्नैपुण्यं पश्यता भृशम् ।।
न त्वस्य ब्रुवतो जातु लक्ष्यते दुष्टभावता । प्रसन्नं वदनं चापि तस्मान्मे नास्ति संशयः ॥६२
अशङ्कितमतिः स्वस्थो न शठः परिसर्पति । न चास्य दुष्टा वाक् चापि तस्मान्नास्तीह संशयः ।।
आकारश्छाद्यमानोऽपि न शक्यो विनिगूहितुम् । बलाद्धि विवृणोत्येव भावमन्तर्गतं नृणाम् ॥