पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/७३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६७६
श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे


त्वया भोगवतीं गत्वा निर्जिताः पन्नगा युधि । कैलासशिखरावासी यक्षैर्बहुभिरावृतः ।।४
सुमहत्कदनं कृत्वा वश्यस्ते धनदः कृतः । स महेश्वरसख्येन श्लाघ्यमानस्त्वया विभो ॥५
निर्जितः समरे रोपाल्लोकपालो महाबलः । विनिहत्य च यक्षौघान् विक्षोभ्य च विगृह्य च ॥६
त्वया कैलासशिखराद्विमानमिदमाहृतम् । मयेन दानवेन्द्रेण त्वद्भयात्सख्यमिच्छता ॥७
दुहिता तव भार्यार्थे दत्ता राक्षसपुंगव । दानवेन्द्रो मधुर्नाम वीर्योत्सिक्तो दुरासदः ।।८
विगृह्य वशमानीतः कुम्भीनस्याः सुखावहः । निर्जिनास्ते महाबाहो नागा गत्वा रसातलम् ॥
वासुकिस्तक्षकः शङ्खो जटी च क्शमाहृताः । अक्षया बलवन्तश्च शूरा लब्धवराः पुरा ॥ १०
त्वया संवत्सरं युद्ध्वा समरे दानवा विभो । स्वबलं समुपाश्रित्य नीता वशमरिंदम ।।११
मायाश्चाधिगतास्तत्र बहवो राक्षसाधिप । निर्जिताः समरे रोषाल्लोकपाला महाबलाः ।। १२
देवलोकमितो गत्वा शक्रश्चापि विनिर्जितः । शूराश्च बलवन्तश्च वरुणस्य सुता रणे।। १३
निर्जितास्ते महाबाहो चतुर्विधबलानुगाः । मृत्युदण्डमहाग्राहं शाल्मलिद्रुममण्डिनम् ।।१४
कालपाशमहावीचिं यमकिङ्करपन्नगम् । अवगाह्य त्वया राजन् यमलोकमहार्णवम् । १५
जयश्च विपुलः प्राप्तो मृत्युश्च प्रतिषेधितः । सुयुद्धेन च ते सर्वे लोकास्तत्र सुनोषिताः ॥ १६
क्षत्रियैर्बहुभिवीरैः शक्रतुल्यपराक्रमैः । आसीद्वसुमती पूर्णा महद्भिरिव पादपैः ॥ १७
तेषां वीर्यगुणोत्साहैर्न समो राघवो रणे । प्रसह्य ते त्वया राजन् हताः परमदुर्जयाः ॥ १८
तिष्ठ वा किं महाराज श्रमेण तव वानरान् । अयमेको महाबाहुरिन्द्रजित्क्षपयिष्यति ॥ १९
अनेन हि महाराज माहेश्वरमनुत्तमम् । इष्ट्वा यज्ञं वरो लब्धो लोके परमदुर्लभः ।।२०
शक्तितोमरमीनं च विनिकीर्णान्त्रशैवलम् । गजकच्छपसंबाधमश्वमण्डूकसंकुलम् ।।२१
रुद्रादित्यमहाग्राहं मरुद्वसुमहोरगम् । रथाश्वगजतोयौघं पदातिपुलिनं महत् ।। २२
अनेन हि समासाद्य देवानां बलसागरम् । गृहीतो दैवतपतिर्लङ्कां चापि प्रवेशितः ॥२३
पितामह नियोगाच्च मुक्तः शम्बरवृत्रहा । गतस्त्रिविष्टपं राजन् सर्वदेवनमस्कृतः ।।२४
तमेव त्वं महागज विसृजेन्द्रजितं सुतम् । यावद्वानरसेनां तां सरामां नयति क्षयम् ।। २५
राजन्नापदयुक्नेयमागता प्राकृताज्जनात् । हृदि नैव त्वया कार्या त्वं वधिष्यसि राघवम् ।। २६

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायां

युद्धकाण्डे सचिवोक्तिनाम सप्तमः सर्गः