पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/६८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६३० श्रीमाल्मीकिरामायण सुन्दरकाण्डे

तत्त्वतः कथयस्वाद्य ततो वानर मोक्ष्यसे । अनृतं वदतश्चापि दुर्लभं तब जीवितम् ।। ११
अथवा यनिमित्तं ते प्रवेशो रावणालये। एवमुक्तो हरिवरस्तदा रक्षोगणेश्वरम् ।। १२
अब्रवीमास्मि शकस्य यमस्य वरुणस्य वा । धनदेन न मे सख्यं विष्णुना नास्मि चोदितः ।। १३
जातिरेव मम त्वेषा वानरोऽहमिहागतः । दर्शने राक्षसेन्द्रस्य दुर्लभे तदिदं मया ॥ १४
वनं राक्षसराजस्य दर्शनार्थे विनाशितम । ततस्ते राक्षसाः प्राप्ता बलिनो युद्धकाक्षिणः ॥ १५
रक्षणार्थ तु देहस्य प्रतियुद्धा मया रणे । अस्त्रपाशैर्न शक्योऽहं बन्धुं देवासुरैरपि ।
पितामहादेव वरो ममाप्येषोऽभ्युपागतः । राजानं द्रष्टुकामेन मयास्त्रमनुवर्तितम् ॥
विमुक्तो सहमस्त्रेण राक्षसैरत्वभिपीडितः । केनचिद्राजकार्येण संप्राप्तोऽस्मि तवान्तिकम् ॥ १८
दूतोऽहमिति विज्ञेयो राघवस्यामितौजसः । श्रूयतां चापि वचनं मम पश्यमिदं प्रभो ।। १९

इत्याचे श्रीमद्रामायणे वाल्मीकीये आदिकाव्य चनिशतिमहस्तिकाया संहितायाम् सुन्दरकाण्डे प्रहस्तप्रश्नो नाम पञ्चाशः सर्गः एकपञ्चाशः सर्गः हनुमदुपदेशः

तं समीक्ष्य महासत्त्वं सत्ववान हरिमत्तमः । वाक्यमर्थवदव्यप्रस्तमुवाच दशाननम् ।।
अहं सुग्रीवसंदेशादिह प्राप्तस्तवालयम । रानमेन्द्र हरीशस्त्वां भ्राता कुशलमब्रवीत् ।।
भ्रातुः शृणु समादेशं सुग्रीवस्य महात्मनः । धर्मार्थोपहितं वाक्यमिह चामुत्र च क्षमम् ।।
राजा दशरथो नाम रथकुञ्जग्वाजिमान् । पितेव बन्धुलॊकस्य सुरेश्वरसमगुतिः ।।
ज्येष्ठस्तस्य महाबाहुः पुत्रः प्रियकरः प्रभुः । पितुर्निदेशानिष्क्रान्तः प्रविष्टो दण्डकावनम् ।।
लक्ष्मणेन सह भ्रात्रा सीतया चापि भार्यया । रामो नाम महातेजा धयं पन्थानमाश्रितः ॥
तस्य भार्या बने नष्टा सीता पतिमनुत्रता । वैदेहस्य सुता राज्ञो जनकस्य महात्मनः ।।
स मार्गमाणस्तां देवीं राजपुत्रः सहानुजः । ऋश्यमूकमनुप्राप्तः सुग्रीवेण समागतः ॥
तस्य तेन प्रतिज्ञातं सीतायाः परिमार्गणम । सुग्रीवस्यापि रामेण हरिराज्यं निवेदितम् ।।
ततस्तेन मृधे हत्वा राजपुत्रेण वालिनम् । सुग्रीवः स्थापितो राज्ये हपृक्षाणां गणेश्वरः ॥
त्वया विज्ञातपूर्वश्व वाली वानरपुंगवः । रामेण निहतः संख्ये शरेणैकेन यानरः ।।
स सीतामार्गणे व्यग्रः सुग्रीवः सत्यसंगरः । हरीन संप्रेपयामास दिशः सर्वा हरीश्वरः ।।
तां हरीणां सहस्राणि शनानि नियुतानि च । दिक्षु सर्वामु मार्गन्ते बधश्चोपरि चाम्बरे ॥
वैनतेयसमाः केचित् केचित्तत्रानिलोपमाः । असङ्गगतयः शीघ्रा हरिवीरा महाबलाः ।।
अहं तु हनुमानाम मारुतस्यौग्सः सुतः । सीतायान्तु कृते तूर्ण शतयोजनमायतम् ॥