पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/६९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकपश्चाशः. सर्गः

समुद्र लवयित्वैव तां दिक्षुरिहागतः । भ्रमता च मया दृष्टा गृहे ते जनकात्मजा ॥ १६
तद्भवान् दृष्टधर्मार्थस्तपःकृतपरिग्रहः । परदारान महाप्राज्ञ नोपरोढुं त्वमर्हसि ।।
न हि धर्मविरुद्धेषु बसपायेषु कर्मसु । मूलधातिषु सजन्ते बुद्धिमन्तो भवद्विधाः ॥ १८
कश्च लक्ष्मणमुक्तानां रामकोपानुवर्तिनाम । शराणामप्रतः स्थातुं शक्तो देवासुरेष्वपि ॥ १९
न चापि त्रियु लोकेषु राजन् विद्येत कश्चन । राघवस्य व्यलोकं यः कृत्वा सुखमवाप्नुयात् ।। २०
तत् त्रिकालहितं वाक्यं धर्म्यमर्थानुबन्धि च । मन्यस्व नरदेवाय जानकी प्रतिदीयताम् ॥ २१
दृष्टा हीयं मया देवी लब्धं यदिह दुर्लभम् । उनरं कर्म यच्छेषं निमित्तं तत्र राघवः ॥ २२
लक्षितेयं मया सीता तथा शोकपरायणा । गृह्य' यां नाभिजानासि पश्चास्यामिव पन्नगीम ॥ २३
नेयं जरयितुं शक्या सासुरैरमरैरपि । विपसंमृष्टमत्यर्थं भुक्तमन्नमिवौजमा ।।
२४
तपःसंतापलब्धस्ने योऽयं धर्मपरिग्रहः । न स नायितुं न्याय्य आत्मप्राणपरिग्रहः ।।
अवध्यतां तपोभियां भवान् समनुपश्यति । आत्मनः सासुरैर्दै वैहेतुस्तत्राप्ययं महान् ॥ २६
सुग्रीवो न हि देवोऽयं नासुरो न च राक्षसः । न दानवो न गन्धर्वो न यक्षो न च पन्नगः ॥ २७
तस्मान् प्राणपरित्राणं कथं राजन करिष्यसि । ननु धर्मोपसंहारमधर्मफलसंहितम् ।।
तदेव फलमन्वेति धर्मश्चाधर्मनाशनः । प्राप्तं धर्मफलं तावद्भवता नात्र संशयः ।।
फलमस्याप्यधर्मस्य क्षिप्रमेव प्रपत्स्यसे । जनस्थानवधं बुद्ध्वा बुद्ध्वा वालिवधं तथा ।
रामसुग्रीवसख्यं च बुध्यस्व हितमात्मनः । कामं खल्वहमप्येकः सवाजिरथकुञ्जराम् ।।
लङ्का नाशयितुं शक्तस्तस्यैप तु न निश्चयः । रामेण हि प्रतिज्ञातं होक्षगणसंनिधौ ।। ३२
उत्सादनममित्राणां सीता येस्तु प्रधर्पिना । अपफुर्वन् हि रामस्य साक्षादपि पुरंदरः ॥
न सुखं प्राप्नुयादन्यः किं पुनस्त्वदिधो जनः । सीतेत्यभिजानासि येयं तिष्ठति ते क्शे ॥ ३४
कालरात्रीति तां विद्धि सर्वलकाविनाशिनीम् । तदल कालपाशेन सीताविग्रहरूपिणा ।। ३५
स्वयं स्कन्धावसक्तैन क्षममात्मनि चिन्त्यताम । सीतायास्तेजसा दग्धां रामकोपप्रपीडिताम् ॥ ३६
दह्यमानामिमां पश्य पुरी साट्टप्रतोलिकाम् । स्वानि मित्राणि मन्त्रीश्च ज्ञातीन्भ्रातृन्सुतान्हितान् ॥३७
भोगान् दारांश्च लां च मा विनाशमुपानय । सत्यं राक्षसराजेन्द्र शृणुध्व वचनं मम ॥
रामदासस्य दूतस्य वानरस्य विशेषतः । सर्वाल्लोकान् सुसंहत्य सभूतान् सचराचरान् ।। ३९
पुनरेव तथा स्रष्टुं शको रामो महायशाः । देवासुरनरेन्द्रपु यक्षरभोगणेषु च ।।
विद्याधरेषु सर्वेषु गन्धर्वेपूरगेपु च । सिद्धेपु किंनरेन्द्रेपु पतत्रिषु च सर्वतः ।।
सर्वभूतेषु सर्वत्र सर्वकालेपु नास्ति सः । यो रामं प्रतियुध्येत विष्णुतुल्यपराक्रमम ॥
सर्वलोकेश्वरस्यैवं कृत्वा विप्रियमीदृशम् । रामस्य राजसिंहस्य दुर्लभं तव जीवितम् ॥ ४३