पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/६२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

षोडशः सर्गः ५६९

तत्र यान्यवहीनानि तान्यहं नोपलक्षये। यान्यस्या नावहीनानि तानीमानि न संशयः॥ ४४
पीतं कनकपट्टाभं स्रस्तं तद्वसनं शुभम्। उत्तरीयं नगासक्तं तदा दृष्टं प्लवङ्गमैः॥ ४५
भूषणानि विचित्राणि दृष्टानि धरणीतले। अनयैवापविद्धानि स्वनवन्ति महान्ति च॥ ४६
इदं चिरगृहीतत्वाद्वासनं क्लिष्टवत्तरम्। तथापि नूनं तद्वर्णं तथा श्रीमद्यथेतरत्॥ ४७
इयं कनकवर्णाङ्गी रामस्य महिषी प्रिया। प्रनष्टापि सती यास्य मनसो न प्रणश्यति॥ ४८
इयं सा यत्कृते रामश्चतुर्भिः परितप्यते। कारुण्येनानृशंस्येन शोकेन मदनेन च॥ ४९
स्त्री प्रनष्टेति कारुण्यादाश्रितेत्यानृशंस्यतः। पत्नी नष्टेति शोकेन प्रियेति मदनेन च॥ ५०
अस्या देव्या यथा रूपमङ्गप्रत्यङ्गसौष्ठवम्। रामस्य च यथारूपं तस्येयमसितेक्षणा॥ ५१
अस्या देव्या मनस्तस्मिंस्तस्य चास्यां प्रतिष्ठितम्। तेनेयं स च धर्मात्मा मुहूर्तमपि जीवति॥ ५२
दुष्करं कृतवान् रामो हीनो यदनया प्रभुः। धारयत्यात्मनो देहं न शोकेनावसीदति॥ ५३
एवं सीतां तदा दृष्ट्वा हृष्टः पवनसंभवः॥ जगाम मनसा रामं प्रशशंस च तं प्रभुम्॥ ५४
इत्यार्षे श्रीमद्रामायणे वाल्मीकिये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम्
सुन्दरकाण्डे सीतोपलम्भो नाम पञ्चदशः सर्गः

षोडशः सर्गः
हनूमत्परितापः
प्रशस्य तु प्रशस्तव्यां सीतां तां हरिपुंगवः। गुणाभिरामं रामं च पुनश्चिन्तापरोऽभवत्॥ १
स मुहूर्तमिव ध्यात्वा बाष्पपर्याकुलेक्षणः। सीतामाश्रित्य तेजस्वी हनुमान् विललाप ह॥ २
मान्या गुरुविनीतस्य लक्ष्मणस्य गुरुप्रिया। यदि सीतापि दुःखार्ता कालो हि दुरतिक्रमः॥ ३
रामस्य व्यवसायज्ञा लक्ष्मणस्य च धीमतः। नात्यर्थं क्षुभ्यते देवी गङ्गेव जलदागमे॥ ४
तुल्यशीलवयोवृत्तां तुल्याभिजनलक्षणाम्। राघवोऽर्हति वैदेहीं तं चेयमसितेक्षणा॥ ५
तां दृष्ट्वा नवहेमाभां लोककान्तामिव श्रियम्। जगाम मनसा रामं वचनं चेदमब्रवीत्॥ ६
अस्या हेतोर्विशालाक्ष्या हतो वाली महाबलः। रावणप्रतिमो वीर्ये कबन्धश्च निपातितः॥ ७
विराधस्च हतः संख्ये राक्षसो भीमविक्रमः। वने रामेण विक्रम्य महेन्द्रेणेव शम्बरः॥ ८
चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम्। निहतानि जनस्थाने शरैरग्निशिखोपमैः॥ ९