पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/५९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रथमः सर्गः ५३७

हनूमांश्च मुहूर्तेन व्यतिचक्राम सागरम् । ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ॥ १४४ अब्रुवन् सूर्यसंकाशां सुरसां नागमातरम् । अयं वातात्मजः श्रीमान प्लवते सागरोपरि ॥ १४५ हनूमान्नाम तस्य त्वं मुहूर्त विघ्रमाचर । राक्षसं रूपमास्थाय सुघोरं पर्वतोपमम् ॥ १४६ दंष्ट्राकरालं पिङ्गाक्षं वक्त्रं कृत्वा नभःस्पृशम् । बलमिच्छामहे ज्ञातुं भूयश्चास्य पराक्रमम् ॥ १४७ त्वां विजेष्यत्युपायेन विषादं वा गमिष्यति । एवमुक्ता तु सा देवी दैवतैरभिसत्कृता ॥ १४८ समुद्रमध्ये सुरसा बिभ्रती राक्षसं वपुः । विकृतं च विरूपं च सर्वस्य च भयावहम ॥ १४९ प्लवमानं हनूमन्तमावृत्येदमुवाच ह । मम भक्षः प्रदिष्टस्त्वमीश्वरैर्वानरर्षभ ॥ १५० अहं त्वां भक्षयिष्यामि प्रविशेदं ममाननम् । एवमुक्तः सुरसया प्राञ्जलिर्वानरर्षभः ॥ १५१ प्रहष्टवदनः श्रीमान मुरसां वाक्यमब्रवीत् । रामो दाशरथिः श्रीमान् प्रविष्टो दण्डकावनम् ॥ १५२ लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया । अन्यकार्यविपक्तस्य बद्धवैरस्य राक्षसैः ॥ १५३ तस्य सीता हृता भार्या रावणेन यशस्विनी । तस्याः सकाशं दूतोऽहं गमिष्ये रामशासनात् ॥ १५४ कर्तुमर्हसि रामस्य माह्यं विषयवासिनी । अथवा मैथिली दृष्ट्वा रामं चाक्लिष्टकारिणम् ॥ १५५ आगमिष्यामि ते वक्त्रं सत्यं प्रतिशृणोमि ते । एवमुक्ता हनुमता सुरसा कामरूपिणी ॥ १५६ अब्रवीन्नातिवर्तेन्मां कश्चिदेप वरो मम । तं प्रयान्तं समुद्वीक्ष्य सुरसा वाक्यमब्रवीन ॥ १५७ बलं जिज्ञाममाना वै नागमाना हनूमनः । प्रविश्य वदनं मेऽघ गन्तव्यं वानरोत्तम ॥ १५८ वर एष पुरा दत्तो मम धात्रेति सत्वरा । व्यादाय वक्त्रं विपुलं स्थिता सा मारुतेः पुरः ॥ १५९ एवमुक्तः सुरसया क्रुद्धो वानरपुंगवः । अब्रवीत् कुरु वै वक्त्रं येन मां विषहिष्यसे ॥ १६० इत्युक्त्वा सुरसां क्रुद्धो दशयोजनमायताम् । दशयोजनविस्तारो बभूव हनुमास्तदा ॥ १६१ नं दृष्टा मेघसंकाशं दशयोजनमायतम् । चकार सुरसाप्यास्यं विंशद्योजनमायतम् ॥ १६२ तदिप्ट्वा व्यादितं चाम्यं वायुपुत्रः सुबुद्धिमान् । दीर्घजिह्व सुरसया सुघोरं नरकोपमम् ॥ १६३ स संक्षिप्यात्मनः कायं जीमूत इव मारुतिः । तस्मिन् मुहूर्त हनुमान् बभूवाङ्गुष्ठमात्रकः ॥ १६४ सोऽभिपत्याशु तद्वक्त्रं निप्पत्य च महाजवः । अन्तरिक्षे स्थितः श्रीमानिदं वचनमब्रवीत् ॥ १६५ प्रविष्टोऽस्मि हि ते वक्त्रं दाक्षायणि नमोऽस्तु ते । गमिष्ये यत्र वैदेही सत्यश्वासीद्वरस्तव ॥ १६६

१. राक्षममित्वादि नभःरपृशभित्यन्तं क ष हनुमान् वीर: पक्ष्चाशणोजनोत्तः ॥ चकार सुरमा नास्ति । २ इदमर्ध ग नास्ति । योजनोच्छितः॥ चकार सुरता ववत्रभशीतीयोजनायतम् । ३ इत्युक्ता सुरसा क्रुद्धा दशयोजनमायती हनुमानप्रख्यो नवतीजनोच्छितः ॥ चकार सुरमा ग छ वक्त्र शतयोजनमायतम् । इति ग. च

४ अस्यानन्तरम्-तां दृष्ट्वा विस्तृतास्यां तु ५. बभूवागुष्ठमात्रक: ग च् वायुपुत्रः सुबुद्धिमान् । अतः परं इनूमास्तु विशयोजन- ६. प्रहसविदम् ग. च मायतः॥ चकार सुरसा वक्त्रं चत्वारिंशत्तथायतम् । बभूव