पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/५९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५३८ श्रीमद्वाल्मीकिरामायणे सुन्दरकाण्डे तं दृष्ट्वा वदनान्मुक्त चन्द्रं राहुमुखादिव । अब्रवीत् सुरसा देवी स्वेन रूपेण वानरम् ॥ १६७ अर्थसिद्धयै हरिश्रेष्ठ गच्छ सौम्य यथासुखम् । समानयस्व वैदेही राघवेण महात्मना ॥ १६८ तत्तृतीयं हनुमतो दृष्टा कर्म सुदुष्करम् । साधु साध्विति भूतानि प्रशशंसुस्तदा हरिम् ॥ १६९ जगामाकाशमाविश्य वेगेन गरुडोपमः । सेविते वारिधाराभिः पतगैश्च निषेविते ॥ १७० चरिते कैशिकाचार्यै रैरावतनिषेविते । सिंहकुञ्जरशार्दूलपतगोरगवाहनैः॥ १७१ विमानैः संपतद्भिश्च विमलैः ममलंकृते । वज्राशनिसमाघातैः पावकैरुपशोभिते ॥ १७२ कृतपुण्यैर्महाभागैः स्वर्गजिद्भिरलंकृते । वहता हव्यमत्यर्थ सेविते चित्रभानुना ॥ १७३ प्रहनक्षत्रचन्द्रार्कतारागणविभूषिते । महर्षिगणगन्धर्वनागयक्षसमाकुले ॥ १७४ विविक्ते विमले विश्वे विश्वावसुनिषेविते । देवराजगजाक्रान्ते चन्द्रसूर्यपथे शिवे ॥ १७५ विताने जीवलोकस्य वितते ब्रह्मनिर्मिते । बहुशः सेविते वीरैर्विद्याधरगणैर्वरैः ॥ १७६ जगाम वायुमार्गे च गरुत्मानित्र मारुतिः। हनुमान् मेघजालानि प्रकर्षन मारुतो यथा ॥ १७७ कालागरुसवर्णानि रक्तपीतसितानि च । कपिना कृष्यमणानि महाभ्राणि चकाशिरे ॥ १७८ प्रविशन्नभ्रजालानि निष्पतंश्च पुनः पुनः । प्रावृपीन्दुरिवाभाति निष्पतन् प्रविशंस्तदा ॥ १७९ प्रदृश्यमानः सर्वत्र हनुमान मारुतात्मजः । भेजेऽम्बरं निरालम्ब लम्बपक्ष इवाद्रिराट् ॥ १८० प्लवमानं तु तं दृष्ट्वा सिंहिका नाम राक्षसी । मनसा चिन्तयामास प्रवृद्धा कामरूपिणी ॥ १८१ अद्य दीर्घस्य कालस्य भविप्याम्यहमाशिता । इदं हि मे महत् सत्त्वं चिरस्य वशमागतम ॥ १८२ इति संचिन्त्य मनसा छायामस्य समाक्षिपत् । छायायां गृह्यमाणायां चिन्तयामास वानरः ॥ १८३ समाक्षिप्तोऽस्मि सहसा पङ्गूकृतपराक्रमः । प्रतिलोमेन वातेन महानौरिव सागरे॥ १८४ तिर्यगूर्ध्धमधश्चैव वीक्षमाणस्ततः कपिः । ददर्श स महत् सत्त्वमुत्थितं लवणाम्भसः ॥ १८५ तदूदृष्ट्वा चिन्तयामास मारुतिर्विकृताननम । कपिराजेन कथितं सत्त्वमद्भुतदर्शनम् ॥ १८६ छायाग्राहि महावीयं तदिदं नात्र संशयः । म तां बुद्ध्वार्थतत्त्वेन सिंहिका मतिमान् कपिः ॥ १८७ व्यवर्धत महाकायः प्रावृषीव बलाहकः । तस्य सा कायमुद्वीक्ष्य वर्धमानं महाकपेः ॥ १८८ वक्त्रं प्रसारयामास पातालान्तरसंनिभम् । धनराजीव गर्जन्ती वानरं समभिद्रवत् ॥ १८९ स ददर्श वतस्तस्या विवृतं सुमहन्मुखम् । कायमानं च मेधावी मर्माणि च महाकपिः॥ १९० म तस्या विवृते वक्त्रे वष्त्रसंहननः कपिः । संक्षिप्य मुहुरात्मानं निपपात महाबलः ॥ १९१ १. अस्वानन्नरम-म मागरमनाधृष्यमभ्यय ३ पक्षयुक्तः पुना. बरुणालयम्-ति क. ग. च छ ४ महासस्वम् छ.

२.पन्नगैक्ष्च छ. ५ कपिराका यदाख्यातम्