पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/५९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रथमः सर्गः ५३३ गच्छेत्तद्गमिष्यामि लक्कां रावणपालिताम् । न हि द्रक्ष्यामि यदि तां लङ्कायां जनकात्मजाम् ॥ ४० अनेनैव हि वेगेन गभिष्यामि सुरालयम् । यदि वा त्रिदिवे सीतां न द्रक्ष्यामि कृतश्रमः ॥ ४१ बद्ध्या राक्षसराजानमानयिष्यामि रावणम् । सर्वथा कृतकार्योऽहमेष्यामि सह सीतया॥ ४२ आनयिष्यामि वा लङ्कां समुत्पाट्य सरावणाम् । एवमुक्त्वा तु हनुमान् वानरान् वानरोत्तमः ॥४३ उत्पपाताथ वेगेन वेगवानविवारयन् । सुपर्णमिव चात्मानं मेने स कपिकुञ्जरः॥ ४४ समुत्पतति तस्मिंस्तु वेगात्ते नगरोहिणः । संहत्य विटपान सर्वान् समुत्पेतुः समन्ततः ॥ ४५ स मत्तकोयष्टिभकान् पादपान पुष्पशालिनः । उद्वहन्नूगवेगेन जगाम विमलेऽम्बरे ॥ ४६ ऊम्वेगोद्धता वृक्षा मुहूर्त कपिमन्वयुः । प्रस्थितं दीर्घमध्वानं स्वबन्धुमिव बान्धवाः ॥ ४७ तदूरुवेगोन्मथिताः मालाश्चान्ये नगोत्तमाः । अनुजग्मुर्हनूमन्तं सैन्या इव महीपतिम् ॥ ४८ मुपुष्पिनात्रैर्यहुभिः पादपैरन्वितः कपिः । हनूमान पर्वताकारो बभूवाद्भुतदर्शनः ॥ब ४९ माग्वन्तोऽथ ये वृक्षा न्यमजल्लवणाम्भसि । भयादिव महेन्द्रस्य पर्वता वरुणालये ॥ ५० स नानाकुसुमैः कीर्णः कपिः माड्कुरकोरकैः । शुशुभे मेघसंकाशः खद्योतैरिव पर्वतः ॥ ५१ विमुक्तास्तस्य बेगेन मुक्त्वा पुष्पाणि ते द्रुमाः । अवशीर्यन्त सलिले निवृत्ताः सुट्टदो यथा ॥ ५२ लघुत्वेनोपपन्नं तद्विचित्रं सागरेऽपतन । द्रुमाणां विविधं पुप्पं कपिवायुममीरितम' ॥ ५३ पुष्पौधेनानुविद्धेन नानावर्णेन वानरः । बभौ मेघ इवोधन वै' विघुद्गणविभूषितः ॥ ५४ तस्य वेगसमाधूतैः पुष्पैस्तोयमहश्यत । ताराभिरभिरामाभिरुदिताभिरिवाम्बरम् ॥ ५५ तस्याम्बरगतौ बाहू ददृशाते प्रसारितौ । पर्वताग्त्राद्विनिष्कान्तौ पञ्चास्याविव पन्नगौ ॥ ५६ पिबन्निव बभौ श्रीमान मोर्मिमालं महार्णवम । पिपासुरिव चाकाशं ददृशे स महाकपिः ॥ ५७ तस्य विघुत्प्रभाकारे वायुमार्गानुमारिणः । नयने संप्रकाशेते पर्वतस्थाविवानलौ ॥ ५८ पिङ्गे पिङ्गाक्षमुग्न्यस्य बृहती परिमण्डले । चनुपी संप्रकाशेते चन्द्रसूर्याविवोदितौं' ५९ मुग्वं नामिकया नस्य ताम्रया ताम्रमाबभौ । सन्ध्यया समभिस्पृष्टं यथा सूर्यस्य मण्डलम् ॥ ६० लाङ्गृलं च समाविद्धं प्लवमानस्य शोभते । अम्बरे वायुपुत्रस्य शकध्वज इबोच्छ्रितः ॥ ६१ लाड्गृलचक्रेण महाञ्शुक्लदंष्ष्ट्रोऽनिलात्मजः । न्यरोचत महाप्राज्ञः परिवेषीव भास्करः ॥ ६२ स्फिग्देशेनाभितामेण रराज स महाकपिः । महता दारितेनेव गिरिर्गैरिकधातुना ॥ ६३ तस्य वानरसिंहस्य प्लवमानस्य सागरम । कक्षान्तरगतो वायुर्जीमूत इव गर्जति ॥ ६४ खे यथा निपतन्त्युल्का झुत्तरान्ताद्विनिःसृता । दृश्यते सानुबन्धा च तथा स कपिकुञ्जरः॥ ६५ .. 1. बृहती च परिमण्डले अणुनी चेति विरोध: २ इवाकाशे छ अपिशब्दप्रयोगाद्गम्य: पर्नुलाकारे प्रति परिहारः । ३ पुष्पौधेनेत्यादि अदृश्यतेत्यन्तं घ नारित । २ अस्यानन्तरम्-ताराचितमिवाकाशं प्रबमो ४ अब्वरे ख ग छ म महार्णव:-इति ग. च छ