पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/५९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५३२ श्रीमद्वाल्मीकिरामायणे सुन्दरकाण्डे

शिरोभिः पृथुभिः सर्पा व्यक्तस्वस्तिकलक्षणैः । वमन्तः पावकं घीरं ददंशुर्दशनैः शिलाः ॥ १९ तास्तदा सविषैर्दष्टाः कुपितैरतैर्महाशिलाः । जज्वलुः पावकोहीप्ता बिभिदुश्च सहस्रधा ॥ २० यानि चौषधजालानि तस्मिञ्जातानि पर्वते । विषघ्नान्यपि नागानां न शेकुः शमितुं विषम् ॥ २१ भिद्यतेऽयं गिरिर्भूतैरिति मत्वा तपस्विनः । त्रस्ता विद्याधरास्तस्मादुत्पेतुः स्त्रीगणैः सह ॥ २२ पानभूमिगतं हित्वा हैममासवभाजनम् । पात्राणि च महार्हाणि करकांश्च हिरण्मयान् ॥ २३ लेझानुञ्चावचान् भक्ष्यान मांसानि विविधानि च । आर्पभाणि च चर्माणि खड्गांश्च कनकत्सरून ॥ २४ कृतकण्ठगुणाः क्षीया रक्तमाल्यानुलेपनाः । रक्त्ताक्षाः पुष्कराक्षाश्च गगनं प्रतिपदिरे ॥ २५ हारनूपुरकेयूरपारिहार्यधराः स्त्रियः । विस्मिताः सस्मितास्तरथुराकाशे रमणैः सह ॥ २६ दर्शयन्तो भहाविद्यां विद्याधरमहर्षयः । सप्रियास्तस्थुराकाशे वीक्षांचक्रुश्च पर्वतम् ॥ २७ शुश्रुवुश्च तदा शब्दमृषीणां भावितात्मनाम् । चारणानां च सिद्धानां स्थितानां विमलेऽम्बरे ॥ २८ एष पर्वतसंकाशो हनूमान् मारुतात्मजः । तितीर्षति महावेगः सागरं मकरालयम् ॥ २९ रामार्थ वानरार्थं च चिकीर्षन् कर्म दुष्करम् । समुद्रस्य परं पारं दुष्प्रापं प्राप्तुमिच्छति ॥ ३० इति विद्याधराः श्रुत्वा वचस्तेषां तपस्विनाम् । तमप्रमेयं ददृशुः पर्वते वानरर्षभम् ॥ ३१ दुधुवे च स रोमाणि चकम्पे चाचलोपमः । ननाद सुमहानादं स महानिव तोयदः ॥ ३२ आनुपूर्व्येण वृत्तं च लाङ्गूलं रोमभिश्चितम् । उत्पतिष्यन् विचिक्षेप पक्षिराज इवोरगम ॥ ३३ तस्य लाङ्गृलमाविद्धमात्तवेगस्य पृष्ठतः । ददृशे गरुडनेव ह्वियमाणो महोरगः ॥ ३४ बाहू संस्तम्भयामास महापरिघसंनिभौ । ससाद च कपिः कट्यां चरणौ संचुकोच च ॥ ३५ संहृत्य च भुजौ श्रीमांस्तथैव च शिरोधराम् । तेजः सत्त्वं तथा वीर्यमाविवेश स वीर्यवान् ॥ ध३६ मार्गमालोकयन् दूरादूर्ध्व प्रणिहितेक्षणः । रुरोध हृदये प्राणानाकाशमवलोकयन् ॥ ३७ पद्व्भ्यां दृढमवस्थानं कृत्वा स कपिकुञ्जरः । निफुञ्च्य कर्णौ हनुमानुत्पतिप्यन महाबलः ॥ ३८ वानरान् वानरश्रेष्ठ इदं वचनमब्रवीत् । यथा 'राघवनिर्मुक्तः शरः श्वसनविक्रमः ॥ ३९ 1. यथेति ।

। रामवनिर्मुक्त्तः शरो यथा मुमुचुः पुष्पवर्षाणि रक्तोत्पलमुगंधिनः ॥ गैरिकाश्चन- संकल्पित लक्ष्यम्य प्रदेशम् आदौ गच्छेत् , लक्ष्यस्य तत्र संजष्टा हरितालसमावृताः । व्यशीर्यन्त गिरेस्तस्य असैनिधाने च त्रिदिवमपि गच्छेत् , एवं क्रमेण याद- शिलान्ताः समनःशिलाः सचन्दनरसस्तानचित्र- क्कक्ष्यभूनः त राघवमनुगच्छति तावत्तमनुद्रवत्येव काञ्चनधानुभिःक्षिप्तै शिखरनिर्भदैदीप्तर्गैरिकधातुमिः॥ तथाहभपि करिष्यामीत्यर्थः । अतश्चास्य उपमान- इति ध छ वाझ्यस्य 'गमिष्यामि सुरालयम्' मानयिष्यामि २. आसनभाजनम् ख रावणम्' इत्युत्तरत्रापि सबन्धः ॥ ३ सहिताः ख च १. अस्यानन्तरम्-अपरे तु महाकाया विस्मिताः छ. बमन्सोऽग्नि स्वतेजसा । कन्दरेभ्यो विनिम्पेतुः कपिपाद- अनकोषम: पुना. निपीडिताः ॥ गिरेराक्रम्यमाणस्य तरवस्तरुणाकुराः । अचलोत्तमः क च