पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/५७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सप्तपञ्चाशः सर्गः

५१५


संपातिर्नाम नाम्ना तु चिरजीवी विहङ्गमः । भ्राता जटायुषः श्रीमान् प्रख्यातबलपौरुषः ॥२
कन्दरादभिनिष्क्रम्य स विन्ध्यस्य महागिरेः । उपविष्टान् हरीन् दृष्ट्वा हृष्टात्मा गिरमब्रवीन् ॥ ३
विधिः किल नरं लोके विधानेनानुवर्तते । यथायं विहितो भक्ष्यश्चिरान्मह्यमुपागतः ।।४
परंपराणां भक्षिष्ये वानराणां मृतं मृतम् । उवाचेदं वचः पक्षी तान्निरीक्ष्य प्लवङ्गमान् ।।५
तस्य तद्वचनं श्रुत्वा भक्ष्यलुब्धस्य पक्षिणः । अङ्गदः परमायस्तो हनुमन्तमथाब्रवीत् ।।६
पश्य सीतापदेशेन साक्षाद्वैवस्वतो यमः । इमं देशमनुप्राप्तो वानराणां विपत्तये ।।७
रामस्य न कृतं कार्यं राज्ञो न च वचः कृतम् । हरीणामियमज्ञाता विपत्तिः सहसागता ।।८
वैदेह्याः प्रियकामेन कृतं कर्म जटायुषा । गृध्रराजेन यत्तत्र श्रुतं वस्तदशेषतः ॥९
तथा सर्वाणि भूतानि तिर्यग्योनिगतान्यपि । प्रियं कुर्वन्ति रामस्य त्यक्त्वा प्राणान यथा वयम् ॥१०
अन्योन्यमुपकुर्वन्ति स्नेहकारुण्ययन्त्रिताः । तेन तस्योपकारार्थं त्यजतात्मानमात्मना ।।११
प्रियं कृतं हि रामस्य धर्मज्ञेन जटायुषा । राघवार्थे परिश्रान्ता वयं संत्यक्तजीविताः ।। १२
कान्ताराणि प्रपन्नाः स्म न च पश्याम मैथिलीम् । स सुखी गृध्रराजस्तु रावणेन हतो रणे ।। १३
मुक्तश्च सुग्रीवभयाद्गतश्च परमां गतिम् । जटायुषो विनाशेन राज्ञो दशरथस्य च ।। १४
हरणेन च वैदेह्याः संशयं हरयो गताः । रामलक्ष्मणयोर्वास अरण्ये सह सीतया ।। १५
राघवस्य च बाणेन वालिनश्च तथा वधः । रामकोपादशेषाणां राक्षसानां तथा वधः ॥१६

कैकेय्या वरदानेन इदं हि विकृतं कृतम्।।

तदसुखमनुकीर्तितं वचो भुवि पतितांश्च समीक्ष्य वानरान् ।
भृशचलितमतिर्महामतिः कृपणमुदाहृतवान् स गृध्रराट् ॥१७

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायां

किष्किन्धाकाण्डे संपातिप्रश्नो नाम षटपञ्चाशः सर्गः

सप्तपञ्चाशः सर्गः

जटायुर्दिष्टकथनम्

तत्तु श्रुत्वा तदा वाक्यमङ्गदस्य मुखोद्गतम् । अब्रवीद्वचनं गृध्रस्तीक्ष्णतुण्डो महास्वनः ॥१
कोऽयं गिरा घोषयति प्राणैः प्रियतरस्य मे। जटायुषो वधं भ्रातुः कम्पयन्निव मे मनः॥२
कथमासीज्जनस्थाने युद्धं राक्षसगृध्रयोः । नामधेयमिदं भ्रातुश्चिरस्याद्य मया श्रुतम् ॥३
इच्छेयं गिरिदुर्गाच्च भवद्भिरवतारितुम् । यवीयसो गुणज्ञस्य श्लाघनीयस्य विक्रमैः ॥४
अतिदीर्घस्य कालस्य तुष्टोऽस्मि परिकीर्तनात् । तदिच्छेयमहं श्रोतुं विनाशं वानरर्षभाः५॥
भ्रातुर्जटायुषस्तस्य जनस्थाननिवासिनः । तस्यैव च मम भ्रातुः सखा दशरथः कथम् ॥६