पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/५७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५१२

श्रीमद्वाल्मीकिरामायणे किष्किन्धाकाण्डे


तस्मिन्नतीते काले तु सुप्रीवेण कृते स्वयम् । प्रायोपवेशनं युक्तं सर्वेषां च वनौकसाम् ।। २६
तीक्ष्णः प्रकृत्या सुग्रीवः स्वामिभावे व्यवस्थितः । न क्षमिष्यति नः सर्वानपराधकृतो गतान् ॥ २७
अप्रवृत्तौ च सीतायाः पापमेव करिष्यति । तस्मात् क्षममिहाद्यैव गन्तुं प्रायोपवेशनम् ।। २८
त्यक्त्वा पुत्रांश्च दारांश्च धनानि च गृहाणि च । ध्रुवं नो हिंसिता राजा सर्वान् प्रतिगतानितः ।।२९
वधेनाप्रतिरूपेण श्रेयान् मृत्युरिहैव नः । न चाहं यौवराज्येन सुग्रीवेणाभिषेचितः॥ ३०
नरेन्द्रेणाभिषिक्तोऽस्मि रामेणाक्लिष्टकर्मणा । स पूर्वं बद्धवैरो मां राजा दृष्ट्वा व्यतिक्रमम् ।। ३१
घातयिष्यति दण्डेन तीक्ष्णेन कृतनिश्चयः । किं मे सुहृद्भिर्व्यसनं पश्यद्भिर्जीवितान्तरे ।। ३२
इहैव प्रायमासिष्ये पुण्ये सागररोधसि । एतच्छ्रुत्वा कुमारेण युवराजेन भाषितम् ।।३३
सर्वे ते वानरश्रेष्ठाः करुणं वाक्यमब्रुवन् । तीक्ष्णः प्रकृत्या सुप्रीवः प्रियासक्तश्च राघवः॥३४
समीक्ष्याकृतकार्यास्तु तस्मिंश्च समये गते । अदृष्टायां तु वैदेह्यां दृष्ट्वा चैव समागतान् ।। ३५
राघवप्रियकामार्थं घातयिष्यत्यसंशयम् । न क्षमं चापराद्धानां गमनं स्वामिपार्श्वतः ।।३६
प्रधानभूताश्च वयं सुप्रीवस्य समागताः । इहैव सीतामन्विष्य प्रवृत्तिमुपलभ्य वा ।।३७
नो चेद्गच्छाम तं वीरं गमिष्यामो यमक्षयम् ।।
प्लवङ्गमानां तु भयार्दितानां श्रुत्वा वचस्तार इदं बभाषे।
अलं विषादेन बिलं प्रविश्य वसाम सर्वे यदि रोचते वः॥३८
इदं दि मायाविहितं सुदुर्गमं प्रभूतवृक्षोदकभोज्यपेयकम् ।
इहास्ति नो नैव भयं पुरंदरान्न राघवाद्वानरराजतोऽपि वा ।।३९
श्रुत्वाङ्गदस्यापि वचोऽनुकूलमूचुश्च सर्वे हरयः प्रतीताः ।
यथा न हिंस्येम तथा विधानमसक्तमद्यैव विधीयतां नः ।।४०

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहसिकायां संहितायाम् किष्किन्धाकाण्डे अङ्गदादिनिवेदो नाम निपञ्चाशः सर्ग:

चतुःपञ्चाशः सर्गः

हनूमद्भोनम्

तथा ब्रुवति तारे तु ताराधिपतिवर्चसि । अथ मेने हृतं राज्यं हनुमानङ्गदेन तत् ॥१
बुद्ध्या ह्यष्टाङ्गया युक्तं चतुर्बलसमन्वितम् । चतुर्दशगुणं मेने हनुमान् वालिनः सुतम् ।।२