पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/५६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५०६ श्रीमद्वाल्मीकिरामायणे किष्किन्धाकाण्डे तस्य ते काननान्तांश्च गिरीणां कन्दराणि च । प्रभवाणि नदीनां च विचिन्वन्ति समाहिताः।। १५ तत्र चापि महात्मानो नापश्यञ्जनकात्मजाम् । हर्तारं रावणं वापि सुग्रीवप्रियकारिणः॥१६ ते प्रविश्याशु तं भीमं लतागुल्मसमावृतम् । ददृशुः क्रूरकर्माणमसुरं सुरनिर्भयम् ॥१७ तं दृष्ट्वा वानरा घोरं स्थितं शैलमिवापरम् । गाढं परिहिताः सर्वे दृष्ट्वा तं पर्वतोपमम् ॥ १८ सोऽपि तान् वानरान् सर्वान्नष्टाः स्थेत्यब्रवीद्बली । अभ्यधावत संक्रुद्धो मुष्टिमुद्यम्य संहितम् ॥१९ तमापतन्तं सहसा वालिपुत्रोऽङ्गदस्तदा । रावणोऽयमिति ज्ञात्वा तलेनाभिजघान ह ॥२० स वालिपुत्राभिहतो वक्त्राच्छोणितमुद्वमन् । असुरो न्यपतद्भूमौ पर्यस्त इव पर्वतः ॥२१ तेऽपि तस्मिन्निरुच्छासे वानरा जितकाशिनः । व्यचिन्वन् प्रायशस्तत्र सर्वं तद्गिरिगह्वरम् ॥ २२ विचितं तु ततः कृत्वा सर्वे ते काननं पुनः । अन्यदेवापरं घोरं विविशुर्गिरिगह्वरम् ॥२३ ते विचित्य पुनः खिन्ना विनिष्पत्य समागताः । एकान्ते वृक्षमूले तु निपेदुर्दीनमानसाः ॥२४ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् किष्किन्धाकाण्डे कण्डूवनादिविचयो नाम अष्टचत्वारिंशः सर्गः एकोनपञ्चाशः सर्गः रजतपर्वतविचयः अथाङ्गदस्तदा सर्वान् वानरानिदमब्रवीत् । परिश्रान्तो महाप्राज्ञः समाश्वास्य शनैर्वचः॥१ वनानि गिरयो नद्यो दुर्गाणि गहनानि च । दर्यो गिरिगुहाश्चैव विचितानि समन्ततः॥२ तत्र तत्र सहास्माभिर्जानकी न च दृश्यते । तद्वा रक्षो हृता येन सीता सुरसुतोपमा ॥३ कालश्च नो महान् यातः सुग्रीवश्चोग्रशासनः । तस्माद्भवन्तः सहिता विचिन्वन्तु समन्ततः ॥४ विहाय तन्द्रीं शोकं च निद्रां चैव समुत्थिताम् । विचिनुध्वं यथा सीतां पश्यामो जनकात्मजाम् ॥५ अनिर्वेदं च दाक्ष्यं च मनसश्चापराजयम् । कार्यसिद्धिकराण्याहुस्तस्मादेतद्ब्रवीम्यहम् ॥६ अद्यापीदं वनं दुर्गं विचिन्वन्तु वनौकसः । खेदं त्यक्त्वा पुनः सर्वं वनमेतद्विचीयताम् ॥७ अवश्यं क्रियमाणस्य दृश्यते कर्मणः फलम् । अलं निर्वेदमागम्य न हि नो मीलनं क्षमम् ॥ ८ सुग्रीवः क्रोधनो राजा तीक्ष्णदण्डश्च वानराः । भेतव्यं तस्य सततं रामस्य च महात्मनः ॥९ हितार्थमेतदुक्तं वः क्रियतां यदि रोचते । उच्यतां वा क्षमं यन्नः सर्वेषामेव वानराः ॥१० अङ्गदस्य वचः श्रुत्वा वचनं गन्धमादनः । उवाचाव्यक्तया वाचा पिपासाश्रमखिन्नया ॥११ सदृशं खलु वो वाक्यमङ्गदो यदुवाच ह । हितं चैवानुकूलं च क्रियतामस्य भाषितम् ॥१२