पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/५६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पश्चाशः संगः पुनर्मार्गामहे शैलान कन्दरांश्च दरीस्तथा । काननानि च शून्यानि गिरिप्रस्रवणानि च ॥१३ यथोद्दिष्टानि सर्वाणि सुग्रीवेण महात्मना । विचिन्वन्तु वनं सर्वे गिरिदुर्गाणि सर्वशः ॥ १४ ततः समुत्थाय पुनर्वानरास्ते महाबलाः । विन्ध्यकाननसंकीर्णां विचेरुर्दक्षिणां दिशम् ॥१५ ते शारदाभ्रप्रतिमं श्रीमद्रजतपर्वतम् । शृङ्गवन्तं दरीमन्तमधिरुह्य च वानराः ॥१६ तत्र लोध्रवनं रम्यं सप्तपर्णवनानि च । व्यचिन्वंस्ते हरिवराः सीतादर्शनकाङ्क्षिणः ॥१७ तस्याग्रमधिरूढास्ते श्रान्ता विपुलविक्रमाः । न पश्यन्ति स्म वैदेहीं रामस्य महिषीं प्रियाम् ॥ १८ ते तु दृष्टिगतं दृष्ट्वा तं शैलं बहुकन्दरम् । अवारोहन्त हरयो वीक्षमाणाः समन्ततः ॥१९ अवरुह्य ततो भूमिं श्रान्ता विगतचेतसः । स्थित्वा मुहूर्तं तत्राथ वृक्षमूलमुपाश्रिताः ॥२० ते मुहूर्तं समाश्वस्ताः किंचिद्भग्नपरिश्रमाः । पुनरेवोद्यताः कृत्स्नां मार्गितुं दक्षिणां दिशम् ॥२१ हनुमत्प्रमुखास्ते तु प्रस्थिताः प्लवगर्षभाः। विन्ध्यमेवादितस्तावद्विचेरुस्ते ततस्ततः ॥२२ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् किष्किन्धाकाण्डे रजतपर्वतविचयो नाम एकोनपञ्चाशः सर्ग: पञ्चाशः सर्गः ऋक्षबिलप्रवेशः सह ताराङ्गदाभ्यां तु संगम्य हनुमान् कपिः । विचिनोति स्म विन्ध्यस्य गुहाश्च गहनानि च ॥ १ सिंहशार्दूलजुष्टाश्च शिलाश्च सरितस्तथा । विषमेषु नगेन्द्रस्य महाप्रस्रवणेषु च ॥२ आसेदुस्तस्य शैलस्य कोटि दक्षिणपश्चिमाम् । तेषां तत्रैव वसतां स कालो व्यत्यवर्तत ॥३ स हि देशो दुरन्वेषो गुहागहनवान् महान् । तत्र वायुसुतः सर्वं विचिनोति स्म पर्वतम् ॥४ परस्परेण रहिता अन्योन्यस्याविदूरतः । गजो गवाक्षो गवयः शरभो गन्धमादनः ॥५ मैन्दश्च द्विविदश्चैव सुषेणो हनुमानपि । अङ्गदो युवराजश्च तारश्च वनगोचरः॥६ गिरिजालावृतान् देशान् मार्गित्वा दक्षिणां दिशम् । विचिन्वन्तस्ततस्तत्र ददृशुर्विवृतं बिलम् ॥७ दुर्गमृक्षबिलं नाम दानवेनाभिरक्षितम् । क्षुत्पिपासापरीताश्च श्रान्ताश्च सलिलार्थिनः ॥८ अवकीर्णं लतावृक्षैर्ददृशुस्ते महाबिलम् । ततः क्रौञ्चाश्च हंसाश्च सारसाश्चापि निष्क्रमन् ॥९ जलार्द्राश्चक्रवाकाश्च रक्ताङ्गाः पद्मरेणुभिः । ततस्तद्बिलमासाद्य सुगन्धि दुरतिक्रमम् ॥१० विस्मयव्यग्रमनसो बभूवुर्वानरर्षभाः । संजातपरिशङ्कास्ते तद्बिलं प्लवगोत्तमाः ॥११