पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/५३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकत्रिंशः सर्गः

यदर्थमयमारम्भः कृतः परपुरंजय । समयं नाभिजानाति कृतार्थः प्लवगेश्वरः ।।
वर्षाः समयकालं तु प्रतिज्ञाय हरीश्वरः । व्यतीतांश्चतुरो मासान् विहरनारबुध्यते ।।
सामात्यपरिषत क्रीडन् पानमेवोपसेवते । शोकदीनेषु नास्मासु सुग्रीवः कुरुते दयाम् ।।
उच्यतां गच्छ सुग्रीवस्त्वया वत्स महाबल। मम रोषस्य यद्रूपं ब्रूयाश्चैनमिदं वचः ।।
न च संकुचितः पन्था येन वाली हतो गतः । समये तिष्ट सुग्रीव मा वालिपथमन्वगाः ॥
एक एव रणे वाली शरेण निहतो मया। त्वां तु सत्यादतिक्रान्तं हनिष्यामि सबान्धवम् ॥
तदेवं चिहिते कार्ये यद्धितं पुरुषर्षभ । तत्तद्रूहि नरश्रेष्ठ त्वर कालव्यतिक्रमः ।।
कुरुष्व सत्यं मयि वानरेश्वर प्रतिश्रुतं धर्ममवेक्ष्य शाश्वतम् ।
मा वालिनं प्रेत्य गतो यमक्षयं त्वमय पश्येमैम चोदितैः शरैः ।।
स पूर्वज वीविवृद्धकोपं लालप्यमानं प्रसमीक्ष्य दीनम ।
चकार तोत्रां मतिमुमतेजा हरीश्वरे मानववंशनाथः ।

इत्या श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहनिकाय महिनायाम किष्किन्धाकाण्डे शरद्वर्णन नाम त्रिंशः सर्ग: एकत्रिंशः सर्गः लक्ष्मणक्रोधः

स कामिन दीनमदीनसत्त्वं शोकाभिपन्न समुदीर्णकोपम ।
नरेन्द्रसूनुर्नरदेवपुत्रं रामानुजः पूर्वजमित्युवाच ।।
न वानरः स्थास्यति साधुवृत्ते न मस्यते कर्मफलानुषङ्गान् ।
न भोक्ष्यते वानरराज्यलक्ष्मी तथा हि नाभिक्रमतेऽस्य बुद्धिः ।
मतिक्षयाग्राम्यसुखेषु सक्तस्तव प्रसादप्रतिकारयुद्धिः।
हतोऽप्रजं पश्यतु वीर तस्य न राज्यमेवं विगुणस्य देयम ।।
न धारये कोपमुदीर्णवेगं निहन्मि सुग्रीवमसत्यमद्य ।
हरिप्रवीरैः सह वालिपुत्रो नरेन्द्रपुत्र्या विचयं करोतु ।।
तमातवाणासनमुत्पतन्तं निवेदितार्थ रणचण्डकोपम् ।
उवाच रामः परवीरहन्ता स्ववेक्षितं सानुनयं च वाक्यम् ।।
न हि वै त्वविधो लोके पापमेवं समाचरेत् । कोपमार्येण यो हन्ति स बीरः पुरुषोत्तमः ।।