पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/५३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणे किष्किन्धाकाण्डे

नेदमय त्वया ग्राह्य साधुसेन लक्ष्मण । तां प्रीतिमनुवर्तस्व पूर्ववृत्तं च संगतम् ।।
सामोपहितया वाचा रूक्षाणि परिवर्जयन् । वक्तुमर्हसि सुग्रीवं व्यतीतं कालपर्यये ।।
सोऽग्रजेनानुशिष्टार्थो यथावत् पुरुषर्षभः । प्रविवेश पुरी वीरो लक्ष्मणः परवीरहा।
ततः शुभमतिः प्राझो भ्रातुः प्रियहिते रतः । लक्ष्मणः प्रतिसंरब्धो जगाम भवन कपेः ।।
शक्रपाणासनप्रख्यं धनुः कालान्तकोपमम् । प्रगृह्य गिरिशृङ्गामं मन्दरः सानुमानिव ।।
यथोक्तकारी वचनमुत्तरं चैव सोत्तरम् । बृहस्पतिसमो बुद्धथा मत्वा रामानुजस्तदा ।। १२
कामक्रोधसमुत्थेन भ्रातुः कोपामिना वृतः । प्रभञ्जन इवाप्रीतः प्रययौ लक्ष्मणस्तदा ।। १३
सालतालाश्वकर्णाश्च तरसा पातयन् बहून् । पर्यस्यन् गिरिकूटानि गुमानन्यांश्च वेगितः ॥
शिलाश्च शकलीफुर्वन् पद्धयां गज इवाशुगः। दूरमेकपदं त्यक्त्वा ययौ कार्यवांद्रुतम् ।। १५
तामपश्यदलाकीणा हरिराजमहापुरीम् । दुर्गामिक्ष्वाकुशार्दूलः किष्किन्धां गिरिसकटे ।। १६
रोषात् प्रस्फुरमाणोष्ठः सुग्रीवं प्रति लक्ष्मणः । ददर्श वानरान् भीमान् किष्किन्धाया बहिश्वरान् ॥१७
तं दृष्ट्रा वानराः सर्वे लक्ष्मणं पुरुषर्षभम् । शैलशृङ्गाणि शतशः प्रवृद्धांश्च महीरुहान् ॥ १८
जगृहुः कुञ्जरप्रख्या वानराः पर्वतान्तरे । तान् गृहीताहरणान हरीन दृष्टा तु लक्ष्मणः ।। १९
बभूव द्विगुणं छुद्धो बहिन्धन इवानलः । तं ते भयपरीताङ्गाः क्रुद्धं दृष्ट्वा प्लवंगमाः ।।
कालमृत्युयुगान्ताभं शतशो विद्रुता दिशः । ततः सुप्रीवभवनं प्रविश्य हरिपुंगवाः ।। २१
क्रोधमागमन चैव लक्ष्मणस्य न्यवेदयन् । तारया सहितः कामे सक्तः कपिवृषो रहः ।।
न तेषां कपिवीराणां शुश्राव वचनं तदा । ततः सचिवसंदिष्टा हरयो रोमहर्षणाः ।। २३
गिरिकुअरमेघाभा नगर्या निर्ययुस्तदा । नखदंष्ट्रायुधा घोराः सर्वे विकृतदर्शनाः ॥
सर्वे शार्दूलदर्पाश्च सर्वे च विकृताननाः । दशनागबलाः केचित् केचिद्दशगुणोत्तराः ।।
केचिन्नागसहस्रस्य बभूवुस्तुल्यविक्रमाः । कृत्स्नां हि कपिभिर्व्याप्तां द्रुमहस्तैर्महाबलैः ॥
अपश्यलक्ष्मणः क्रुद्धः किष्किन्धां तां दुरासदाम् । ततस्ते हरयः सर्व प्रकारपरिघान्तरात् ।।
निष्कम्योदप्रसत्त्वास्तु तस्थुराविष्कृतं तदा । सुग्रीवस्य प्रमाद च पूर्वजस्यार्थमात्मवान् ।
बुद्ध्वा कोपवशं वीरः पुनरेव जगाम सः। स दीर्घोष्णमहोच्छासः कोपसंरक्तलोचनः ।। २९
बभूव नरशार्दूलः सथूम इव पावकः । पाणशल्यस्फुरज्जितः सायकासनभोगवान् ॥ ३०
स्वतेजोविषसङ्घातः पञ्चास्य इव पन्नगः । तं दीप्तमिव कालानिं नागेन्द्रमिष कोपितम् ॥ ३१