पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/४०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

कच्चित् सुकुशलं राजँल्लङ्कायां राक्षसेश्वर । केनार्थेन पुनस्त्वं वै तूर्णमेवमिहागतः ॥ ४१
एवमुक्तो महातेजा मारीचेन स रावणः । ते तु पश्चादिदं वाक्यमब्रवीद्वाक्यकोविदः ।। ४२
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम्
अरण्यकाण्डे मारीचाश्रमपुनर्गमनं नाम पञ्चत्रिंशः सर्गः

षट्त्रिंशः सर्गः
सहायैषणा
मारीच श्रूयतां तात वचनं मम भाषतः । आर्तोऽस्मि मम चार्तस्य भवान् हि परमा गतिः ।। १
जानीषे त्वं जनस्थानं भ्राता यत्र खरो मम । दूषणश्च महाबाहुः स्वसा शूर्पणखा च मे ।। २
त्रिशिराश्च महातेजा राक्षसः पिशिताशनः । अन्ये च बहवः शूरा लब्धलक्षा निशाचराः ।। ३
वसन्ति मन्नियोगेन नित्यवासं च राक्षसाः । बाधमाना महारण्ये मुनीन् वै धर्मचारिणः ।। ४
चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम् । शूराणां लब्धलक्षाणां खरचित्तानुवर्तिनाम् ।। ५
ते त्विदानीं जनस्थाने वसमाना महाबलाः । सङ्गताः परमायत्ता रामेण सह संयुगे ॥ ६
नानाप्रहरणोपेताः खरप्रमुखराक्षसाः । तेन सञ्जातरोषेण रामेण रणमूर्धनि ॥ ७
अनुक्त्वा परुषं किंचिच्छरैर्व्यापारितं धनुः । चतुर्दश सहस्राणि रक्षसामुग्रतेजसाम् ।। ८
निहतानि शरैस्तीक्ष्नैर्मानुषेण पदातिना । खरश्च निहतः संख्ये दूषणश्च निपातितः ॥ ९
हतश्च त्रिशिराश्चापि निर्भया दण्डकाः कृताः । पित्रा निरस्तः क्रुद्धेन सभार्यः क्षीणजीवितः ॥ १०
स हन्ता तस्य सैन्यस्य रामः क्षत्रियपांसनः । दुःशीलः कर्कशस्तीक्ष्णो मूखों लुब्धोऽजितेन्द्रियः ॥११
त्यक्तधर्मो ह्यधर्मात्मा भूतानामहिते रतः । येन वैरं विनारण्ये सत्त्वमाश्रित्य केवलम् ॥ १२
कर्णनासापहरणाद्भगिनी मे विरूपिता । तस्य भार्या जनस्थानात् सीतां सुरसुतोपमाम् ।। १३
आनयिष्यामि विक्रम्य सहायस्तत्र मे भव । त्वया ह्यहं सहायेन पार्श्वस्थेन महाबल ॥ १४
भ्रातृभिश्व सुरान् युद्धे समग्रान्नाभिचिन्तये । तत् सहायो भव त्वं मे समर्थों ह्यसि राक्षस ॥ १५
वीर्ये युद्धे च दर्पे च न ह्यस्ति सदृशस्तव । उपायज्ञो महाशूरो महामायाविशारदः ॥ १६
एतदर्थमहं प्राप्तस्त्वत्समीपं निशाचर । शृणु तत्कर्म साहाय्ये यत्कार्य वचनान्मम ॥ १७