पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/३८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२८ श्रीमहाल्मीकिरामायणे अरण्यकाण्डे

तरुणी रूपसंपन्ना सर्षाभरणभूषिता । दृष्टा तत्र मया नारी तयोर्मध्ये सुमध्यमा ॥
ताभ्यामुभाभ्यां संभूय प्रमदामधिकृत्य ताम् । इमामवस्थां नीताई यथानाथासती सथा ॥
तस्याश्चानुवृत्तायास्तयोश्च हतयोरहम् । सफेनं पातुमिच्छामि रुधिरं रणमूर्धनि । १९
एष मे प्रथमः कामः कृतस्तात त्वया भवेत् । तस्यास्तयोश्च रुधिरं पिबेयमहमाहवे ।।
इति तस्यां ब्रुवाणायां चतुर्दश महाबलान् ! व्यादिदेश खरः क्रुद्धो राक्षसानन्तकोपमान् ।। २१
मानुषो शलसंपन्नौ चीरकृष्णाजिनाम्बरौ । प्रविष्टौ दण्डकारण्यं घोरं प्रमदया सह'।
तौ हत्वा तां च दुर्वृत्तामुपावर्तितुमर्हथ । इयं च रुधिरं तेषां भगिनी मम पास्यति ॥ २३
मनोरथोऽयमिष्टोऽस्या भगिन्या मम राक्षसाः । शीघ्रं संपाद्यतां गत्वा तौ प्रमथ्य स्वतेजसा ।। २४
युष्माभिनिहतौ दृष्टा तावुभौ भ्रातरौ रणे । इयं प्रहृष्टा मुदिता रुधिरं युधि पास्यति ॥
इति प्रविसमादिष्टा राक्षसास्ते चतुर्दश । तत्र जग्मुस्तया साधं घना वातेरिता यथा ॥ २६
ततस्तु ते तं समुदप्रतेजसं तथापि तीक्ष्णप्रदरा निशाचराः ।
दुरासदं धर्षयितुंन चाशकन् वनद्विपा दीप्तमिवानिमुत्थितम् ॥

इत्याचे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विशतिसहसिकायां संहितायाम् अरण्यकाण्डे खरोधी नाम एकोनविंशः सर्गः विंशः सर्गः चतुर्दशरक्षोवधः

सतः शूर्पणखा घोरा राघवाश्रममागता । रक्षसामाचचक्षे तौ भ्रातरौ सह सीतया ।।
ते रामं पर्णशालायामुपविष्ट महाबलम् । ददृशुः सीतया सार्ध वैदेह्या लक्ष्मणेन च ।
वान् दृष्ट्वा राघवः श्रीमानागतांस्तां च राक्षसीम् । अब्रवीद्भातरं रामो लक्ष्मणं दीप्ततेजसम् ॥ ३
मुहूर्त भव सौमित्रे सीतायाः प्रत्यनन्तरः । इमानस्था वधिष्यामि पदवीमागतानिह ।।
वाक्यमेतत्ततः श्रुत्वा रामस्य विदितात्मनः । तथेति लक्ष्मणो वाक्यं रामस्य प्रत्यपूजयत् ॥
राघवोऽपि महश्चापं चामीकरविभूषितम् । चकार सज्यं धर्मात्मा तानि रक्षांसि चाब्रवीत् ॥ ६
पुत्रो दशरथस्यावां भ्रातरौ रामलक्ष्मणौ । प्रविष्टौ सीतया साधं दुश्चरं दण्डकावनम् ।।