पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/३८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकोनविंशः सर्गः २२७

वतः सभार्य भयमोहमूञ्छिता सलक्ष्मण राघवमागतं वनम् ।
विरूपणं चात्मनि शोणितोक्षिता शशंस सर्व भगिनी खरस्य सा ।।

इत्याचे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चर्विशतिसहलिकायां संहितायाम् अरण्यकाण्डे शूर्पणखाविरूपणं नाम अष्टादशः सर्गः एकोनविंशः सर्गः खरक्रोधः

तां तथा पतितां दृष्ट्वा विरूपां शोणितोक्षिताम् । भगिनी क्रोधसंतप्तः खरः पप्रच्छ राक्षसीम् ।। १
उत्तिष्ठ तावदाल्याहि प्रमोहं जहि संभ्रमम् । व्यक्तमारल्याहि केन त्वमेवरूपा विरूपिता ॥
कः कृष्णसर्पमासीनमाशीविषमनागसम् । तुदभिसमापनमङ्गुल्यप्रेण लीलया ।
कः कालपाशमामज्य कण्टे मोहान बुध्यते । 'यस्त्वामद्य ममासाद्य पीतवान विषमुत्तमम् ।।
बलविक्रमसंपन्ना कामगा कामरूपिणी । इमामवस्था नीता त्वं केनान्तकसमागता ।।
देवगन्धर्वभूमानामृषीणां च महात्मनाम् । कोऽयमेवं विरूपां त्वां महावीर्यश्चकार ह ।।
न हि पश्याम्यहं लोके यः कुर्यान्मम विप्रियम् । अन्तरेण सहनाक्षं महेन्द्र पाकशासनम् ॥
अद्य मार्गणः प्राणानादास्ये जीवितान्तकैः । सलिले क्षीरमासकं निष्पिवनिय सारसः॥
निहनस्य मया संख्ये शासंकृतमर्मगः । मफेने मधिरं रक्त मेदिनी कस्य पास्यति ।।
कस्य पत्ररथाः कायान्मांसमुत्कृत्य संगताः । प्रहृष्टा भक्षयिष्यन्ति निहतस्य मया रणे। १०
ने न देवा न गन्धर्वा न पिशाचा न राक्षसाः । मयाफ्कृष्टं कृपणं शक्तावातुमिहाहवे ॥
उपलभ्य शनैः मंज्ञां तं मे शंसितुमर्हसि । येन त्वं दुर्विनीतेन वने विक्रम्य निर्जिता ।। १२
इति भ्रातुर्वचः श्रुत्वा क्रुद्धस्य च विशेषतः । ततः शूर्पणखा वाक्यं सवाष्पमिदमब्रवीत् ॥ १३
तमणी रूपसंपन्नौ सुकुमारौ महाबलौ । पुण्डरीकविशालाक्षी चीरकृष्णाजिनाम्बरौ ।। १४
फलमूलाशनौ दान्तो तापमो धर्मचारिणौ । पुत्रौ दशरथस्यास्तां भ्रातरौ रामलक्ष्मणौ ॥ १५
गन्धर्वराजप्रतिमौ पार्थिवव्यञ्जनान्वितौ । देवौ वा मानुषो वा तौ न तर्कयितुमुत्सहे ।। १६