पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/३८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२६ श्रीमदास्मीकिरामायणे भरण्यकाण्ड अष्टादशः सर्गः शूर्पणखाविरूपणम्

ततः शूर्पणखां रामः कामपाशावपाशिताम् । स्वच्छया लक्ष्णया वाचा स्मितपूर्वमयाब्रवीत् ॥
कृतदारोऽस्मि भवति भार्ययं दयिता मम । त्वद्विधानां तु नारीणां सुदुःखा ससपमता ॥
अनुजस्त्वेष मे भ्राता शीलवान् प्रियदर्शनः । श्रीमानकृतदारश्च लक्ष्मणो नाम वीर्यवान् ।
अपूर्वी भार्यया चार्थी तरुणः प्रियदर्शनः । अनुरूपश्च ते भर्ता रूपस्यास्य भविष्यति ॥
एनं भज विशालाक्षि भर्तारं भ्रातरं मम । असपना वगरोहे मेरुमर्कप्रभा यथा ॥
इति रामेण सा प्रोक्का राक्षसी काममोहिता । विसृज्य रामं सहसा ततो लक्ष्मणमब्रवीत् ॥
अस्य रूपस्य ते युक्ता भायहं वरवर्णिनी । मया सह सुखं सर्वान् दण्डकान घिचरिष्यसि ॥
एवमुक्तस्तु सौमित्री राक्षस्या वाक्यकोविदः । ततः शूर्पणखी स्मित्वा लक्ष्मणो युक्तमवीत् ॥
कथं दासस्य मे दासी भार्या भवितुमिच्छसि । सोऽहमार्येण परवान भ्रात्रा कमलयर्णिनि ।।
समृद्धार्थस्य सिद्धार्था मुदिता वरवर्णिनी । आर्यस्थ त्वं विशालाक्षि भार्या भव यवीयसी ॥
एनां विरूपामसती कराला निर्णतोदरीम । भार्या वृद्धां परित्यज्य त्वामेवैष भजिष्यति ॥
को हि रूपमिदं श्रेष्ठं संत्यज्य वरवर्णिनि । मानुषीपु वरारोहे कुर्याद्भाव विचक्षणः ।। १२
इति सा लक्ष्मणेनोक्ता कराला निर्णतोदरी । मन्यते तद्वचस्तथ्यं परिहासाविचक्षणा ॥ १३
सा रामं पर्णशालायामुपविष्टं परंतपम् । सीतया सह दुर्धर्षमब्रवीत् काममोहिता ॥
एनां विरूपामसती कराला निर्णतोदरीम् । वृद्धां भार्यामवष्टभ्य मां न त्वं बहु मन्यसे ।।
अधेमां भक्षयिष्यामि पश्यतस्तव मानुषीम् । त्वया सह चरिष्यामि निःसपना यथासुखम् ॥ १६
इत्युक्त्वा मृगशाबाक्षीमलातसदृशेक्षणा । अभ्यधावत् सुसंकुद्धा महोल्का रोहिणीमिव । १७
मृत्युपाशप्रतिमामापतन्तीं महाबलः । निगृह्य रामः कुपितस्ततो लक्ष्मणमब्रवीत् ॥ १८
रैरनार्यैः सौमित्रे परिहासः कथंचन । न कार्यः पश्य वैदेही कथंचित् सौम्य जीवतीम् ॥ १९
इमां विरूपामसतीमतिमत्तां महोदरीम् । राक्षसी पुरुषव्याघ्र विरूपयितुमर्हसि ।।
इत्युक्तो लक्ष्मणस्तस्याः क्रुद्धो रामस्य पश्यतः । उद्धृत्य खड्ग चिच्छेद कर्णनासं महाबलः ।। २१
निकृत्तकर्णनासा तु विस्वरं सा विनय च । यथागतं प्रदुद्राव घोरा शूर्पणखा वनम् ।।
सा विरूपा महाघोरा राक्षसी शोणितोक्षिता । ननाद विविधानादान यथा प्रावृषि तोयदः ॥ २३
सा विक्षरन्ती रुधिरं बहुधा घोरदर्शना । प्रगृह्य बाहू गर्जन्ती प्रधिवेश महावनम् 11
२४
ततस्तु सा राक्षससहसंवृतं खरं जनस्थानगतं विरूपिता ।
उपेत्य व भ्रातरमुप्रदर्शन पपात भूमौ गगनाद्यथाशनिः ।।