पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/२७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२० श्रीमद्वाल्मीकिरामायणे अयोध्याकाण्ड

राजानं स्तुवतां तेषामुदानाभिहिनाशिषाम् । प्रासादाभोगविस्तीर्णः स्तुतिशब्दो व्यजृम्भत ।
सतस्तु स्तुवतां तेषां सूतानां पाणिवादकाः । अपदानान्युदाहृत्य पाणिवादानवादयन् ॥
तेन शब्देन विहगाः प्रतिबुद्धा विसस्वनुः । शाखास्थाः पक्षरस्थाश्च ये राजकुलगोचराः ॥
व्याहृताः पुण्यशब्दाश्च वीणानां चापि निःस्वनाः। आशीर्गेयं च गाथानां पूरयामास वेश्म तत् ॥६
ततः शुचिसमाचाराः पर्युपस्थानकोविदाः । स्त्रीवर्षवरभूयिष्ठा उपतस्थुर्यथापुरम् ॥
हरिचन्दनसंपृक्तमुदकं काञ्चनैर्घटैः । आनिन्युः स्नानशिक्षाज्ञा यथाकालं यथाविधि ॥
मङ्गालालम्भनीयानि प्राशनीयान्युपस्करान् । उपानिन्युस्तथाप्यन्याः कुमारीबहुलाः स्त्रियः ॥
सर्वलक्षणसंपन्नं सर्व विधिवर्चितम् । सर्व सुगुणलक्ष्मीवत्तद्रभूवाभिहारिकम् ॥
१०
तत्तु सूर्योदयं यावत् सर्व परिसमुत्सुकम् । तस्थावनुपसंप्राप्नं किंस्विदित्युपशङ्कितम् ॥
अथ याः कोसलेन्द्रस्य शयनं प्रत्यनन्तराः । ताः त्रियस्तु समागम्य भर्तारं प्रत्यबोधयन् ।।
तथाप्युचितवृत्तास्ता विनयेन नयेन च । न यस्य शयनं स्पृष्टा किंचिदप्युपलेभिरे । १३
ताः स्त्रियः स्वप्नशीलज्ञाश्वष्टासंचलनादिषु । ता वेपथुपरीताश्च राज्ञः प्राणेषु शङ्किताः ।।
प्रतिस्रोतस्तृणाग्राणां सदृशं संचकम्पिरे । अथ संदेहमानानां स्त्रीणां दृष्टा च पार्थिवम् ॥ १५
यत्तदाशङ्कितं पापं तस्य जो विनिश्चयः । कौसल्या च सुमित्रा च पुत्रशोकपराजिते ॥ १६
प्रसुप्ते न प्रबुध्येते यथाकालसमन्विते । निष्प्रभा च विवर्णा च सन्ना शोकेन संनता ।।
न व्यराजत कौसल्या तारेव तिमिरावृता । कौसल्यानन्तरं राज्ञः सुमित्रा तदनतरम् ।। १८
न स्म विभ्राजते देवी शोकाश्रुलितानना । ते च दृष्टा तथा सुप्ते उभे देव्यौ च तं नृपम् ॥ १९
सुप्तमेवोद्गतप्राणमन्तःपुरमदृश्यत । ततः प्रचुक्रुशुर्दीनाः सस्वरं ता वराङ्गनाः ॥
करेणव इवारण्ये स्थानप्रच्युतयूथपाः । तासामाक्रन्दशब्देन सहसोद्गतचेतने ॥
२१
कौसल्या च सुमित्रा च त्यक्तनिद्रे बभूवतुः । कौसल्या च सुमित्रा च दृष्टा स्पृष्ट्वा च पार्थिवम् ॥२२
हा नाथेनि परिक्रुश्य पेततुर्धरणीतले । सा कोसलेन्द्रदुहिता वेष्टमाना महीतले ।।
न बभ्राज रजोवस्ता तारेव गगनाच्च्युता । नृपे शान्तगुणे जाते कौसल्यां पतितां भुवि ॥ २४
अपश्यस्ताः स्त्रियः सर्वा हतां नागवधूमिव । ततः सर्वा नरेन्द्रस्य कैकेयीप्रमुखाः स्त्रियः ॥
रुदन्त्यः शोकसंतप्मा निपेतुर्गतचेतनाः । ताभिः स बलवामादः क्रोशन्तीभिरनुद्रुतः। २६
येन स्फीरीकृतं भूयस्तद्गृहं समनादयत् । तत्परित्रस्तसंभ्रान्तं पर्युत्सुकजनाकुलम् ।।
सर्वतस्तुमुलाकन्दं परितापार्तबान्धवम् । सद्यो निपतितानन्द वीनविछवदर्शनम् ।।
बभूव नरदेवस्य सद्म दिष्टान्तमीयुषः ।।