पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/२७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चषष्टितमः सर्गः ७०

यमक्षयमनुप्राप्ता' द्रक्ष्यन्ति न हि मानवाः । यदि मां संस्पृशेद्रामः सकृदय लभेत वा ॥ ६२
धनं वा यौवराज्यं वा जीवेयमिति मे मतिः । एतन्मे सदृशं देवि यन्मया राघवे कृतम् ॥
सदृशं तत्तु तस्यैव यदनेन कृतं मयि । दुवृत्तमपि कः पुत्रं त्यजेद्भुवि विचक्षणः ॥ ६४
कश्च प्रव्राज्यमानो वा नासूयेत् पितरं सुतः । चक्षुषा त्वां न पश्यामि स्मृतिर्मम विलुप्यते ॥ ६५
दूता वैवस्वतस्यैते कौसल्ये त्वरयन्ति माम् । अतस्तु किं दुःखतरं यदहं जीवितक्षये ॥ ६६
न हि पश्यामि धर्मझ रामं सत्यपराक्रमम् । तस्यादर्शनजः शोकः सुतस्याप्रतिकर्मणः ।।
उच्छोषयति में प्राणान् धारि स्तोकमिवातपः । न ते मनुष्या देवास्ते ये चारुशुभकुण्डलम् ॥ ६८
मुखं द्रक्ष्यन्ति रामस्य वर्षे पञ्चदशे पुनः । पद्मपत्रेक्षणं सुच सुदंष्ट्रं चारुनासिकम् ॥ ६९
धन्या द्रक्ष्यन्ति रामस्य ताराधिपनि मुखम् । सदृशं शारदस्येन्दोः फुल्लस्य कमलस्य च ॥
सुगन्धि मम रामस्य धन्या द्रक्ष्यन्ति तन्मुखम् । निवृत्तवनवास तमयोध्यां पुनरागतम् ॥ ७१
द्रक्ष्यन्ति सुखिनो रामं शुक्र मार्गगतं यथा । कौसल्ये चित्तमोहेन हृदयं सीदतीव मे ॥
वेदये न चे संयुक्ताशब्दस्पर्शरसानहम् । चित्तनाशाद्विपद्यन्ते सर्वाण्येवेन्द्रियाणि मे॥ ७३
क्षीणस्नेहस्य दीपस्य संसक्ता रश्मयो यथा । अयमात्मभवः शोको मामनाथमचेतसम् ।।
संसादयति वेगेन यथा कूलं नदीरयः । हा राघव महाबाहो हा ममायासनाशन ॥
हा पितृप्रिय मे नाथ हाद्य कासि गतः सुत । हा कौसल्ये विनश्यामि हा सुमित्रे तपस्विनि ।। ७६
हा नृशंसे ममामिने कैकेयि फुलपांसनि । इति रामस्य मातुश्च सुमित्रायाश्च संनिधौ ।
राजा दशरथः शोचञ्जीवितान्तमुपागमत् ।।
तथा तु दीनं कथयनराधिपः प्रियस्य पुत्रस्य विवासनातुरः।
गतेऽर्धरात्रे भृशदुःखपीडितस्तदा जही प्राणमुदारदर्शनः ।।

इत्याचे श्रीमद्रामायण वाल्मीकीये आदिकाव्ये चतुर्विशतिसहस्त्रिकायां संहितायाम् अयोध्याकाण्डे दशरथदिष्टान्तो नाम चतुःषष्टितमः सर्गः पञ्चषष्टितमः सर्गः अन्तःपुराकन्दः

अथ राज्यां व्यतीतायां प्रातरेबापरेऽहनि । बन्दिनः पर्युपातिष्स्तत्पार्थिवनिवेशनम् ।।
सूताः परमसंस्कारा मागधाश्चोत्तमश्रुताः । गायनाः स्तुतिशीलाश्च निगदन्तः पृथक् पृथक् ॥