पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/२५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०४ श्रीमद्वाल्मीकिरामायणे अयोध्याकाण्डे

सौमित्रे शृणु वन्यानां वल्गु न्याहरतां स्वनम् । संप्रतिष्टामहे कालः प्रस्थानस्य परंतप ॥ २
स सुप्तः समये भ्रात्रा लक्ष्मणः प्रतिबोधितः । जहौ निद्रां च तन्द्रीं च प्रसक्तं च पथि श्रमम् ॥ ३
तत उत्थाय ते सर्व स्पृष्टा नद्याः शिवं जलम् । पन्थानमृपिणादिष्टं चित्रकूटस्य तं ययुः ॥
ततः संप्रस्थितः काले रामः सौमित्रिणा सह । सीतां कमलपत्राक्षीमिदं वचनमब्रवीत् ॥
आदीप्तानिव वैदेहि सर्वतः पुष्पितान्नगान् । स्वैः पुष्पैः किंशुकान् पश्य मालिनः शिशिरात्यये ॥ ६
पश्य भल्लातकान् 'विल्यान वानरैरुप लेवितान् । फलपुष्पैरवनतान् नूनं शक्ष्याम जीवितुम् ॥
पश्य द्रोणप्रमाणानि लम्बमानानि लक्ष्मण । मधृनि मधुकारीभिः संभृतानि नगे नगे॥
एष क्रोशति नत्यूहस्तं शिखी प्रतिकूजति । रमणीये क्नोद्देशे पुष्पसंन्तरसंकट ।।
मातङ्गयूथानुसृतं पक्षिसङ्घानुनादितम् । चित्रकूटमिमं पश्य प्रवृद्धशिखर गिरम ।।
समभूमितले रम्ये द्रुमैर्बहुभिरावृते । पुण्ये रस्यामहे तात चित्रकूटग्य कानने ॥ ११
ततस्तौ पादचारेण गच्छन्तौ सह सीतया । रम्यमासेदतुः शैलं चित्रकूट मनोरमम् ॥ १२
तं तु पर्वतमासाद्य नानापक्षिगणायुतम् । बहुमूलफलं रम्यं संपन्नं मरसोदकम् ॥
१३
मनोज्ञोऽयं गिरिः सौम्य नानाद्रुमलतायुतः । बहुमूलफलो रभ्यः स्वाजीवः प्रतिभाति मे ॥
मुनयश्च महात्मानो वसन्त्यस्मिझिालोचये । अयं वासो भवेनावदन्त्र सौग्य रमेमहि ।
इति सीता च रामश्च लक्ष्मणश्च कृताञ्जलिः । अभिगम्याश्रमं सत्र वाल्मीकिमभिवादयन ॥ १६
तान् महर्षिः प्रमुदितः पूजयामास धर्मविन् । आस्यतामिति चाबाच स्वागतं तु निवेद्य च ॥
ततोऽब्रवीन्महाबाहुर्लक्ष्मणं लक्ष्मणाग्रजः । संनिवेद्य यथान्यायमात्मानमृपये प्रभुः ॥ १८
लक्ष्मणानय दारूणि दृढानि च वराणि च । कुरुष्वावमथं सौम्य यामे मेऽभिरतं मनः ॥ १५
तस्य तद्वचनं श्रुत्वा सौमित्रिविविधान द्रुमान । आजहार ततश्चक्रं पर्णशालामरिंदमः ।।
तां निष्टितां बद्धकटां दृष्टा गमः सुदर्शनाम् । शुशूपमाणमेकामिदं वचनमब्रवीत ॥ २१
ऐणेयं मांसमात्य शालां यक्ष्यामह वयम् । कर्तव्यं वास्तुशमनं सौमित्रे चिरजीविभिः ॥ २२
मृगं हत्वानय क्षिप्रं लक्ष्मरोह शुभेक्षण । कर्तव्यः शाबद्रष्टो हि विधिर्धर्ममनुग्मर ।। २३
भ्रातुर्वचनमाज्ञाय लक्ष्मणः परवीरहा । चकार म यथोक्तं च तं रामः पुनरब्रवीत् ॥
ऐणेयं अपयस्वैतच्छालां यक्ष्यामहे वयम् । त्वर सौम्य मुहूर्तोऽयं ध्रुवश्च दिवमोऽप्ययम् ॥
स लक्ष्मणः कृष्णमृगं हत्वा मेध्यं प्रतापवान । अथ चिक्षेप सौमित्रिः समिद्धे जातवेदसि ।।
२६
तंतु पक्कं समाशाय निष्टनं छिन्नशोणितम् । लक्ष्मणः पुरुषव्याघ्रमथ राधमत्रयीत ।।
अयं कृष्णः समाप्ताङ्गः शृतः कृष्णमृगो यथा । देवता देवसंकाश यजस्व कुशलो ह्यसि ॥ २८