पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/२३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीमवाल्मीकिरामायणे अयोध्याकाण्डे

तं राममेवानुविचिन्तयन्तं समीक्ष्य देवी शयने नरेन्द्रम् ।
उपोपविश्याधिकमार्तरूपा विनिश्वसन्ती विललाप कृच्छ्रम् ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम्
अयोध्याकाण्डे दशरथाक्रन्दो नाम द्विचत्वारिंशः सर्गः ॥ ३५

त्रिचत्वारिंशः सर्गः
कौसल्यापरिदेवितम्

ततः समीक्ष्य शयने सन्नं शोकेन पार्थिवम् । कौसल्या पुत्रशोकार्ता तमुवाच महीपतिम् ॥ १
राघवे नरशार्दूले विषमुक्त्वा विजिह्मगा' । विचरिष्यति कैकेयी निर्मुक्तेव हि पन्नगी ॥ २
विवास्य रामं सुभगा लब्धकामा समाहिता । त्रासयिष्यति मां भूयो दुष्टाहिरिव वेश्मनि ॥ ३
अथास्मिन्नगरे रामश्चरन् भैक्षं गृहे वसेत् । कामकारो वरं दातुमपि दासं ममात्मजम् ॥ ४
पातयित्वा तु कैकेय्या रामं रथानाध्यथेष्टतः । प्रविद्धो रक्षसां भागः पर्वणीवाहिताग्निना ।। ५
गजराजगतिर्वीरो महाबाहुर्धनुर्धरः । वनमाविशते नूनं सभार्यैः सहलक्ष्मणः ॥ ६
वने त्वदृष्टदुःखानां कैकेय्यनुमते त्वया । त्यक्तानां वनवासाय का न्यवस्था भविष्यति ॥ ७
ते रत्नहीनास्तरुणाः फलकाले विवासिताः । कथं वत्स्यन्ति कृपणाः फलमूलैः कृताशनाः ॥ ८
अपीदानीं स काल: स्यान्मम शोकक्षयः शिवः । सभार्यं यत्सह भ्रात्रा पश्येयमिह राघवम् ॥ ९
श्रृत्वैवोपस्थितौ वीरौ कदायोध्यां गमिष्यतः । यशस्विनी हृष्टजना सूच्छ्रितध्वजमालिनी ॥ १०
कदा प्रेक्ष्य नरव्याघ्रावरण्यात् पुनरागतौ।
नन्दिष्यति पुरी दृष्टा समुद्र इव पर्वणि ॥ ११
कदाऽयोध्यां महाबाहुः पुरीं वीर: प्रवेक्ष्यति । पुरस्कृत्य रथे सीतां वृषभो गोवधूमिव ॥ १२
कदा प्राणिसहस्राणि राजमार्गे ममात्मजौ । लाजैरवकिरिष्यन्ति प्रविशन्तावरिन्दमौ ॥ १३
प्रविशन्तौ कदाऽयोध्यां द्रक्ष्यामि शुभकुण्डलौ । उदग्रायुधनिस्त्रिंशौ सशृङ्गाविव पर्वतौ ॥ १४
कदा सुमनसः कन्या द्विजातीनां फलानि च । प्रदिशन्त्यः पुरीं हृष्टाः करिष्यन्ति प्रदक्षिणम् ॥ २५
कदा परिणतो बुद्ध्या वयसा चामरप्रभः । अभ्युपैष्यति धर्मज्ञस्त्रिवर्ष इव लालयन् ॥ १६
निःसंशयं मया मन्ये पुरा वीर कदर्यया । पातुकामेषु वत्सेषु मातॄणां शातिताः स्तनाः ॥ १७
साहं गौरिव सिंहेन विवत्सा वत्सला कृता । कैकेय्या पुरुषव्याघ्र बालवत्सेव गौर्बलात् ॥ १८