पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/२३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुश्चत्वारिंशः सर्गः

न हि तावद्गुणैर्जुष्टं सर्वशास्त्रविशारदम् । एकपुत्रा विना पुत्रमहं जीवितुमुत्सहे ।। १९
न हि मे जीविते किंचित् सामर्थ्यमिह कल्प्यते । अपश्यन्त्याः प्रियं पुत्रं महाबाहुं महाबलम् ॥ २०

अयं हि मां दीपयते समुत्थितस्तनूजशोकप्रभवो हुताशनः ।
महीमिमां रश्मिभिरुद्धतप्रभो यथा निदाघे भगवान् दिवाकरः ।।

२१

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहधिकाया महिताशन

अयोध्याकाण्डे कौसल्यापरिदेवितं नाम त्रिचत्वारिंशः सर्ग:

चतुश्चत्वारिंशः सर्गः सुमित्राश्वासनम्

चिलपन्तीं तथा तां तु कौसल्यां प्रमदोत्तमाम् । इदं धर्मे स्थिता धर्म्यं सुमित्रा वाक्यमब्रवीत् ॥ १
तवार्ये सद्गुणैर्युक्तः पुत्रः स पुरुषोत्तमः । कि ते विलपितेनैवं कृपणं रुदितेन वा ॥ २
यस्तवार्ये गतः पुत्रस्त्यक्त्वा राज्यं महाबलः । साधु कुर्वन् महात्मानं पितरं सत्यवादिनम् ।। ३
शिष्टैराचरिते सम्यक् शश्वन् प्रेत्यफलोदये । रामो धर्मे स्थितः श्रेष्ठो न स शोच्यः कदाचन ॥४
वर्तते चोत्तमां वृत्तिं लमणोऽस्मिन् सदानघः । दयावान् सर्वभूतेषु लाभरतस्य महात्मनः ।। ५
अरण्यवासे यद्दुःखं जानती वै सुखेचिता । अनुगच्छति वैदेही धर्मात्मानं तवात्मजम् ।। ६
कीर्तिभूतां पताकां यो लोके भ्रमयति प्रभुः । धर्मसत्यव्रतधनः किं न प्राप्तस्तवात्मजः ।। ७
व्यक्तं रामस्य विज्ञाय शौचं माहात्म्यमुत्तमम् । न गात्रमंशुभिः सूर्यः सन्तापयितुमर्हति ।। ८
शिवः सर्वेषु कालेषु काननेभ्यो विनिस्सृतः । राघवं युक्तशीतोष्णः सेविष्यति सुखोऽनिलः ॥ ९
शयानमनघं रात्रौ पितेवाभिपरिष्वजन् । रश्मिभिः संस्पृशन् शीतैश्चन्द्रमा ह्लादयिष्यति ।। १०
ददौ चास्त्राणि दिव्यानि यस्मै ब्रह्मा महौजसे । दानवेन्द्रं हतं दृष्ट्वा तिमिध्वजसुतं रणे ।। ११
स शूरः पुरुषव्याघ्रः स्वबाहुबलमाश्रितः । असंत्रस्तोऽप्यरण्यस्थो वेश्मनीव निवत्स्यति ।। १२
यस्येषुपथमासाद्य विनाशं यान्ति शत्रवः । कथं न पृथिवी तस्य शासने स्थातुमर्हति ।। १३
या श्रीः शौर्य च रामस्य या च कल्याणसत्त्वता । निवृत्तारण्यवासः स क्षिप्रं राज्यमवाप्स्यति ।। १४
सूर्यस्यापि भवेत् सूर्यो ह्यग्नेरग्निः प्रभोः प्रभुः । श्रियः श्रीश्च भवेदग्रया कीर्त्याः कीर्तिः क्षमाक्षमा ॥ १५