पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/२१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

विंशः सर्गः १५९
पतिहीना तु या नारी न सा शक्ष्यति जीवितुम्। काममेवंविधं राम त्वया मम विदर्शितम्॥ ७
अथवापि महाप्राज्ञ ब्राह्मणानां मया श्रुतम्। पुरा पितृगृहे सत्यं वस्तव्यं किल मे वने॥ ८
लक्षणिभ्यो द्विजातिभ्यः श्रुत्वाहं वचनं पुरा। वनवासकृतोत्साहा नित्यमेव महाबल॥ ९
आदेशो वनवासस्य प्राप्तव्यः स मया किल। सा त्वया सह तत्राहं यास्यामि प्रिय नान्यथा॥ १०
कृतादेशा भविष्यामि गमिष्यामि सह त्वया। कालश्चायं समुत्पन्नः सत्यवाग्भवतु द्विजः॥ ११
वनवासे हि जानामि दुःखानि बहुधा किल। प्राप्यन्ते नियतं वीर पुरुषैरकृतात्मभिः॥ १२
कन्यया च पितुर्गेहे वनवासः श्रुतो मया। भिक्षिण्याः साधुवृत्ताया मम मातुरिहाग्रतः॥ १३
प्रसादितश्च वै पूर्वं त्वं वै बहुविधं प्रभो। गमनं वनवासस्य काङ्क्षितं हि सह त्वया॥ १४
कृतक्षणाहं भद्रं ते गमनं प्रति राघव। वनवासस्य शूरस्य चर्या हि मम रोचते॥ १५
शुद्वात्मन् प्रेमभावाद्धि भविष्यामि विकल्मषा। भर्तारमनुगच्छन्ती भर्ता हि मम दैवतम्॥ १६
प्रेत्यभावेऽपि कल्याणः संगमो मे सह त्वया। श्रुतिर्हि श्रूयते पुण्या ब्राह्मणानां तपस्विनाम्॥ १७
इह लोके च पितृभिर्या स्त्री यस्य महामते। अद्भिर्दत्ता स्वधर्मेण प्रेत्यभावेऽपि तस्य सा॥ १८
एवमस्मात् स्वकां नारी सुवृत्तां हि पतिव्रताम्। नाभिरोचयसे नेतुं त्वं मां केनेह हेतुना॥ १९
भक्तां पतिव्रतां दीनां मां समां सुखदुःखयोः। नेतुमर्हसि काकुत्स्थ समानसुखदुःखिनीम्॥ २०
यदि मां दुःखितामेवं वनं नेतुं न चेच्छसि। विषमग्निं जलं वाहमास्थास्ये मृत्युकारणात्॥ २१
एवं बहुविधं तं सा ययाचे गमनं प्रति। नानुमेने महाबाहुस्तां नेतुं विजनं वनम्॥ २२
एवमुक्ता तु सा चिन्ता मैथिली समुपागता। स्नापयन्नीव गामुष्णैरश्रुभिर्नयनच्युतैः॥ २३
चिन्तयन्तीं तथा तां तु निवर्तयितुमात्मवान्। क्रोधाविष्टां तु वैदेहीं काकुत्स्थो बह्वसान्त्वयत्॥२४
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायां
अयोध्या काण्डे वनानुगमनयाच्ञानिर्बन्धो नाम एकोनविंशः सर्गः
त्रिंशः सर्गः
वनगमनाभ्युपपत्तिः
सान्त्व्यमाना तु रामेण मैथिली जनकात्मजा। वनवासनिमित्ताय भर्तारमिदमब्रवीत्॥ १
सा तमुत्तमसंविप्रा सीता विपुलवक्षसम्। प्रणयाच्चाभिमानाच्च परिचिक्षेप राघवम्॥ २
किं त्वामन्यत वैदेहः पिता मे मिथिलाधिपः। राम जामातरं प्राप्य स्त्रियं पुरुषविग्रहम्॥ ३
अनृतं बत लोकोऽयमज्ञानाद्यद्धि वक्ष्यति। तेजो नास्ति परं रामे तपतीव दिवाकरे॥४
1. स्वकामिति स्वीयामित्यर्थः । यथाभुमिदं - १. च ताम्रोष्ठीम् छ.
मार्षम् । स्विकामिति पाठः सम्भाव्यते।