पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/२०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१५८ श्रीमदाल्मीकिरामायणे अयोध्याकाण्डे

सुप्यते पर्णशय्यासु स्वयं भग्नासु भूतले। रात्रिषु श्रमखिन्नेन तस्माद्दुःखतरं वनम्॥ ११
अहोरात्रं च संतोषः कर्तव्यो नियतात्मना। फलैर्वृक्षावपतितैः सीते दुःखमतो वनम्॥ १२
उपवासश्च कर्तव्यो यथाप्राणेन मैथिलि। जटाभारश्च कर्तव्यो वल्कलाम्बरधारिणा॥ १३
देवतानां पितॄणां च कर्तव्यं विधिपूर्वकम् । प्राप्तानामतिथीनां च नित्यशः प्रतिपूजनम्॥ १४
कार्यस्त्रिरभिषेकश्च काले काले च नित्यशः। चरता नियमेनैव तस्माद्दुःखतरं वनम॥ १५
उपहारश्च कर्तव्यः कुसुमैः स्वयमावृतैः। आर्षेण विधिना वेद्यां बाले दुःखमतो वनम्॥ १६
यथालब्धेन संतोषः कर्तव्यस्तेन मैथिलि। यताहारैर्वनचरैर्नित्यं दुःखमतो वनम्॥ १७
अतीव वातास्तिमिरं बुभुक्षा चात्र नित्यशः। भयानि च महान्त्यत्र ततो दुःखतरं वनम्॥ १८
सरीसृपाश्च बहवो बहुरूपाश्च भामिनि। चरन्ति पृथिवीं दर्पात्ततो दुःखतरं वनम्॥ १९
नदीनिलयनाः सर्पा नदीकुटिलगामिनः। तिष्ठन्त्यावृत्य पन्थानं ततो दुःखतरं वनम्॥ २०
पतङ्गा वृश्चिकाः कीटा दंशाश्च मशकैः सह। बाधन्ते नित्यमबले तस्माद्दुःखतरं वनम्॥ २१
द्रुमाः कण्टकिनश्चैव कुशकाशाश्च भामिनि। वने व्याकुलशाखाग्रास्तेन दुःखतरं वनम्॥ २२
कायक्लेशाश्च बहवो भयानि विविधानि च। अरण्यवासे वसतो दुःखमेव ततो वनम्॥ २३
क्रोधलोभौ विमोक्तव्यौ कर्तव्या तपसे मतिः। न भेतव्यं च भेतव्ये नित्यं दुःखमतो वनम्॥ २४
तदलं ते वनं गत्वा क्षमं न हि वनं तव। विमृशन्निह पश्यामि बहुदोषकरं वनम्॥ २५
वनं तु नेतुं न कृता मतिस्तदा बभूव रामेण यदा महात्मना।
न तस्य मीना वचनं चकार तत्ततोऽब्रवीद्राममिदं सुदुःखिता॥ २६
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायां अयोध्याकाण्डे वनदुःखप्रतिबोधनं नाम अष्टाविंशः सर्गः

एकोनविंशः सर्गः
वनानुगमनयाच्ञानिर्बन्धः
एतत्तु वचनं श्रुत्वा सीता रामस्य दुःखिता। प्रसक्ताश्रुमुखी मन्दमिदं वचनमत्रवीत्॥ १
ये त्वया कीर्तिता दोषा वने वस्तव्यतां प्रति। गुणानित्येव तान् विद्धि तव स्नेहपुरस्कृतान्॥ २
मृगाः सिंहा गजाश्चैव शार्दूलाः शरभास्तथा। चमराः सृमराश्चैव ये चान्ये वनचारिणः॥ ३
अदृष्टपूर्वरूपत्वात् सर्वे ते तव राघव। रूपं दृष्ट्वापसर्पेयुर्भये सर्वे हि बिभ्यति॥ ४
त्वया च सह गन्तव्यं मया गुरुजनाज्ञया। त्वद्वियोगेन मे राम त्यक्तव्यमिह जीवितम्॥ ५
न च मां त्वत्समीपस्थामपि शक्नोति राघव। सुराणामीश्वरः शक्रः प्रवर्षयितुमोजसा॥ ६
तर प्र.