पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/२०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१५६ श्रीमद्वाल्मीकिरामायणे अयोध्याकाण्डे

विप्रियं न च कर्तव्यं भरतस्य कदाचन। स हि राजा प्रभुश्चैव देशस्य च कुलस्य च॥ ३४
आराधिता हि शीलेन प्रयत्नश्चोपसेविताः। राजानः संप्रसीदन्ति प्रकुप्यन्ति विपर्यये॥ ३५
औरसानपि पुत्रान् हि त्यजन्त्यहितकारिणः। समर्थान् संप्रगृह्णन्ति परानपि नराधिपाः॥ ३६
सा त्वं वसेह कल्याणि राज्ञः समनुवर्तिनी। भरतस्य रता धर्म सत्यव्रतपरायणा॥ ३७
अहं गमिष्यामि महावनं प्रिये त्वया हि वस्तव्यमिहैव भामिनि।
यथा व्यलीकं कुरुषे न कस्यचित्तथा त्वया कार्यमिदं वचो मम॥ ३८
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायां
अयोध्याकाण्डे सीताप्रत्यवस्थापनं नाम षड्विंशः सर्गः

सप्तविंशः सर्गः
पतिव्रताध्यवसायः

एवमुक्ता तु वैदेही प्रियार्हा प्रियवादिनी। प्रणयादेव संक्रुद्धा भर्तारमिदमब्रवीत्॥ १
किमिदं भाषसे राम वाक्यं लघुतया ध्रुवम्। त्वया यदपहास्यं मे श्रुत्वा नरवरात्मज॥ २
आर्यपुत्र पिता माता भ्राता पुत्रस्तथा स्नुषा। स्वानि पुण्यानि भुञ्जानाः स्वं स्वं भाग्यमुपासते॥ ३
भर्तुर्भाग्यं तु भार्यैका प्राप्नोति पुरुषर्षभ। अतश्चैवाहमादिष्टा वने वस्तव्यमित्यपि॥ ४
न पिता नात्मजो नात्मा न माता न सखीजनः। इह प्रेत्य च नारीणां पतिरेको गतिः सदा॥ ५
यदि त्वं प्रस्थितो दुर्गं वनमद्यैव राघव। अग्रतस्ते गमिष्यामि मृद्गती कुशकण्टकान्॥ ६
ईर्ष्यारोषौ बहिष्कृत्य पीतशेषमिवोदकम्। नय मां वीर विस्रब्धः पापं मयि न विद्यते॥ ७
प्रासादाग्रैर्विमानैर्वा वैहायसगतेन वा। सर्वावस्थागता भर्तुः पादच्छाया विशिष्यते॥ ८
अनुशिष्टास्मि मात्रा च पित्रा च विविधाश्रयम्। नास्मि संप्रति वक्तव्या वर्तितव्यं यथा मया॥ ९
अहं दुर्गं गमिष्यामि वनं पुरुषवर्जितम्। नानामृगगणाकीर्णं शार्दूलवृकसेवितम्॥ १०
सुखं वने विवत्स्यामि यथैव भवने पितुः। अचिन्तयन्ती त्रील्लोकांश्चिन्तयन्ती पतिव्रतम्॥ ११
शुश्रूषमाणा ते नित्यं नियता ब्रह्मचारिणी। सह रंस्ये त्वया वीर वनेषु मधुगन्धिषु॥ १२
त्वं हि कर्तुं वने शक्तो राम संपरिपालनम्। अन्यस्यापि जनस्येह किं पुनर्मम मानद॥ १३
सह त्वया गमिष्यामि वनमद्य न संशयः। नाहं शक्या महाभाग निवर्तयितुमुद्यमात्॥ १४
फलमूलाशना नित्यं भविष्यामि न संशयः। न ते दुःखं करिष्यामि निवसन्ती सह त्वया॥ १५

१. अस्यानन्तरम् - वीराणां राजपुत्राणां त्वयेरितम्॥ इति च. झ. ञ.
शस्त्रास्त्रविदुषां नृप। अनर्हमयशस्यं च न श्रोतव्यं