पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/२०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अष्टाविंशः सर्गः १५७
अग्रतस्ते गमिष्यामि भोक्ष्ये भुक्तवति त्वयि। इच्छामि सरितः शैलान् पल्वलानि वनानि च॥ १६
द्रष्टुं सर्वत्र निर्भीता त्वया नाथेन धीमता। हंसकारण्डवाकीर्णाः पद्मिनीः साधु पुष्पिताः॥ १७
इच्छेयं सुखिनी द्रष्टुं त्वया वीरेण संगता। अभिषेकं करिष्यामि तासु निन्यं यतत्रता॥ १८
सह त्वया विशालाक्ष रंस्ये परमनन्दिनी। एवं वर्षसहस्राणि शतं वाहं त्वया सह॥ १९
व्यतिक्रमं न वेत्स्यामि स्वर्गोऽपि न हि मे मतः। स्वर्गेऽपि च विना वासो भविता यदि राधव॥ २०
त्वया मम नरव्याघ्र नाहं तमपि रोचये॥
अहं गमिष्यामि वनं सुदुर्गमं मृगायुतं वानरवारणैर्युतम्।
वने निवत्स्यामि यथा पितुर्गृहे तवैव पादावुपगृह्य संयता॥ २१
अनन्यभावामनुरक्तचेतसं त्वया वियुक्तां मरणाय निश्चिताम्।
नयस्व मां साधु कुरुष्व याचनां न ते मयातो गुरुता भविष्यति॥ २२
तथा ध्रुवाणामपि धर्मवत्सलो न च स्म सीतां नृवरो निनीषति।
उवाच सीतां बहु संनिवर्तने वने निवासस्य च दुःखितां प्रति॥ २३
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायां
अयोध्याकाण्डे पतिव्रताध्यवसायो नाम सप्तविंशः सर्गः

अष्टाविंशः सर्गः
वनदुःखप्रतिबोधनम्
स एवं ब्रुवतीं सीतां धर्मज्ञो धर्मवत्सलः। न नेतुं कुरुते बुद्धिं बने दुःखानि चिन्तयन्॥ १
सान्त्वयित्वा पुनस्तां तु बाष्पपर्याकुलेक्षणाम्। निवर्तनार्थं धर्मात्मा वाक्यमेतदुवाच ह॥ २
सीते महाकुलीनासि धर्मे च निरता सदा। इहाचरस्व धर्मं त्वं यथा मे मनसः सुखम्॥ ३
सीते यथा त्वां वक्ष्यामि तथा कार्यं त्वयाबले। वने दोषा हि बहवो वदतस्तान्निबोध मे॥ ४
सीते विमुच्यनामेषा वनवासकृता मतिः। बहुदोषं हि कान्तारं वनमित्यभिधीयते॥ ५
हितबुद्ध्या खलु वचो मयैतदभिधीयते। सदा सुखं न जानामि दुःखमेव सदा वनम्॥ ६
गिरिनिर्झरसंभूता गिरिकन्दरवासिनाम्। सिंहानां निनदा दुःखाः श्रोतुं दुःखमतो वनम्॥ ७
क्रीडमानाश्च विस्रब्धा मत्ताः शून्ये महामृगाः। दृष्ट्वा समभिवर्तन्ते सीते दुःखमतो वनम्॥ ८
सग्राहाः सरितश्चैव पङ्कवत्यः सुदुस्तराः। मत्तैरपि गजैर्नित्यमतो दुःखतरं वनम्॥ ९
लताकण्टकसंकीर्णाः कृकवाकूपनादिताः। निरपाश्च सुदुर्गाश्च मार्गा दुःखमतो वनम्॥ १०

१. इदमर्थम् ख. छ. नास्ति। २.-सहस्राणाम् गो. ३. इदमर्थम् ध. नास्ति ।