पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/२०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१५४ श्रीमद्वाल्मीकिरामायणे अयोध्याकाण्डे

अदितिर्मङ्गलं प्रादात्तते भवतु मङ्गलम्। त्रीन् विक्रमान् प्रक्रमतो विष्णोरमिततेजसः॥ ३५
यदासीन्मङ्गलं राम तत्ते भवतु मङ्गलम्। ऋतवः सागरा द्वीपा वेदा लोका दिशश्च ते॥ ३६
मालानि महाबाहो दिशन्तु शुभमङ्गलाः। इति पुत्रस्य शेषांश्च कृत्वा शिरसि भामिनी॥ ३७
गन्धैश्चापि समालभ्य राममायतलोचना। ओषधीं चापि सिद्धार्थां विशल्यकरणीं शुभाम्॥ ३८
चकार रक्षां कौसल्या मन्त्रैरभिजजाप च। उवाचातिप्रहृष्टेव सा दुःखवशवर्तिनी॥ ३९
वाङ्मात्रेण न भावेन वाचा संसज्जमानया। आनम्य मूर्ध्नि चाघ्राय परिष्वज्य यशस्विनी॥ ४०
अवदत् पुत्र सिद्धार्थो गच्छ राम यथासुखम्। अरोगं सर्वसिद्धार्थमयोध्यां पुनरागतम्॥ ४१
पश्यामि त्वां सुखं वत्स सुस्थितं राजवर्त्मनि। प्रनष्टदुःखसंकल्पा हर्षविद्योतितानना॥ ४२
द्रक्ष्यामि त्वां वनात् प्राप्तं पूर्णचन्द्रमिवोदितम्। भद्रासनगतं राम वनवासादिहागतम्॥ ४३
द्रक्ष्यामि च पुनस्त्वां तु तीर्णवन्तं पितुर्वचः। मङ्गलैरुपसंपन्नो वनवासादिहागतः॥ ४४
वध्वा मम च नित्यं त्वं कामान संवर्धय प्रभो॥
मयार्चिता देवगणाः शिवादयो महर्षयो भूतमहासुरोरगाः।
अभिप्रयातस्य वनं चिराय ते हितानि काङ्क्षन्तु दिशश्च राघव॥ ४५
इतीव चाश्रुप्रतिपूर्णलोचना समाप्य च स्वस्त्ययनं यथाविधि।
प्रदक्षिणं चैव चकार राघवं पुनः पुनश्चापि निपीड्य सस्वजे॥ ४६
तथा तु देव्या स कृतप्रदक्षिणो निपीड्य मातुश्चरणौ पुनः पुनः।
जगाम सीतानिलयं महायशाः स राघवः प्रज्वलितः स्वया श्रिया॥ ४७
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायां
अयोध्याकाण्डे मातृस्वस्त्ययनं नाम पञ्चविंशः सर्गः

षड्विंशः सर्गः
सीताप्रत्यवस्थापनम्
अभिवाद्य च कौसल्यां रामः संप्रस्थितो वनम्। कृतस्वस्त्ययनो मात्रा धर्मिष्ठे वर्त्मनि स्थितः॥ १
विराजयन् राजसुतो राजमार्गं नरैर्वृतम्। हृदयानि ममन्थेव जनस्य गुणवत्तया॥ २
वैदेही चापि तत् सर्वं न शुश्राव तपस्विनी। तदेव हृदि तस्याश्च यौवराज्याभिषेचनम्॥ ३

१. अस्यानन्तरम् - मङ्गल भगवान् विष्णुर्मङ्गल २. त्वामहं वत्स ख.
मधुसूदनः। मङ्गलं पुण्डरीकाक्षो मङ्गलं गरुडध्वजः। ३. संवर्ध वाहि भोः च.
इति ख. ४. इदमर्थम् व. नास्ति।