पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणे अयोध्याकाण्डे ४० ४४ ४८ पृथिव्यां सागरान्वायां यत्किंचिदधिगम्यते । तत्सर्व तब दास्यामि मा च त्वां मन्युराविजेत् ॥ अञ्जलिं कुर्मि कैकेयि पादौ चापि स्पृश्यामि ते । शरणं भव रामस्य माधर्मो मामिह वृशेत् ॥ इति दुःखाभिसंतप्तं विलपन्तमचेतनम् । घूर्णमानं महाराजं शोकेन समभिप्लुतम् ॥ पारं शोकार्णवस्याशु प्रार्थयन्तं पुनः पुनः । प्रत्युवाचाथ कैकेयी रौद्रा रौद्रतरं वचः । ३८ यदि दत्त्वा वरौ राजन् पुनः प्रत्यनुतप्यसे । धार्मिकत्वं कथं वीर पृथिव्यां कयिष्यसि ॥ ३९ यदा समेता बहवरत्वया राजर्षयः सह । कथयिष्यन्ति धर्मज्ञ तत्र किं प्रतिवक्ष्यसि ।। यस्याः प्रसादे जोवामि या च मामभ्यपालयत् । तस्याः कृतं मया मिथ्या कैकय्या इति वक्ष्यसि।। किल्बिषं त्वं नरेन्द्राणां करिष्यसि नराधिप । दत्त्वा वरमयैव पुनरन्यानि भाषसे ।। ४२ शैब्यः श्येनकपोतीये स्वमांसं पक्षिण ददौ । अलर्कश्चक्षुषी दत्त्वा जगाम गतिमुत्तमाम् ॥ ४३ सागरः समयं कृत्वा न वेलामतिवर्तते । समयं मानृतं कार्षीः पूर्ववृत्तमनुस्मरन् । स त्वं धर्म परित्यज्य रामं राज्येऽभिषिच्य च । सह कौसल्यया नित्यं रन्तुमिच्छसि दुर्मते ॥ ४५ भवत्वधर्मो धर्मो वा सत्यं वा यदि वानृतम् । यत्त्वया संश्रुतं मह्यं तस्य नास्ति व्यतिक्रमः ।। अहं हि विपमद्येव पीत्वा बहु तवाग्रतः । पश्यतस्ते मरिप्यामि रामो यद्यभिषिच्यते ॥ एकाहमपि पश्येयं यद्यहं राममातरम । अञ्जलिं प्रतिगृह्णन्ती श्रेयो ननु मृतिर्मम ।। भरतेनात्मना चाई शपे ते मनुजाधिप । यथा नान्येन तुष्येयमृने रामविवामनान ।। ४९ एतावदुक्त्वा वचनं कैकेयी विरराम ह । विलपन्तं च राजानं न प्रतिव्याजहार सा॥ ५० श्रुत्वा च राजा कैकेय्या वाक्य परमदारुणम । रामस्य च वने वासमैश्वयं भरतस्य च । ५१ नाभ्यभाषत कैकयी मुहूर्त व्याकुलेन्द्रियः । प्रेक्षतानिमिपो देवीं प्रियामप्रियवादिनीम् ।। ५२ वां हि वनसमां वाचमाकर्ण्य हृदच्छदम । दुःखशोकमयी धोरां राजा न सुखितोऽभवत् ।। ५३ स देव्या व्यवसायं च घोरं च शपथं छतम् । ध्यात्वा रामति निःश्वस्य छिन्नस्तारवापतत् ।। नष्टचित्तो यथोन्मत्तो विपरीतो यथातुरः । हृततेजा यथा सर्पो बभूव जगतीपतिः ।। दीनया तु गिरा राजा इति होवाच कैकयीम् । अनर्थीमममर्थाभ कन त्वमुपदर्शिता ।। ५६ भूतोपहतचित्तेव ब्रुवन्ती मां न लज्जसे । शीलव्यसनमेतत्ते नाभिजानाम्यहं पुरा । बालायास्तत्त्विदानी ते लक्षये विपरीतक्त् । कुतो वा ते भयं जातं या त्वमेवविधं वरम् ।। ५८ राष्ट्रे भरतमासीनं घृणीपे राघवं वने । विरमैतेन भावेन त्वमेतेनानृतेन वा ॥ ५९ यदि भर्तुः प्रियं कार्य लोकस्य भरतस्य च । नृशंसे पापसंकल्पे क्षुद्रे दुष्कृतकारिणि ।। ६० किं नु दुःखमलीकं वा मयि रामे च पश्यसि । न कचिहते गमादरतो राज्यमावसेत् ॥ रामादपि हि तं मन्ये धर्मतो बलवत्तरमा कथं द्रक्ष्यामि रामस्य वन गच्छेति भाषिते ।। ६२ 1. बने राधव विशीर्ग कृणीषे इति योग्यक्रिया- साधीयान् । ध्याहारः । क्रनम् अवश्यंभावि, तस्पिरीतेन भन्ने ! १. सं मृत्युमाविश ग. ति. नसमविना मावेनेत्यर्थः । 2. वक्ष्यमानि तिलकः । अस्मिन् पाठे मुखवर्ण- मित्युचरत्र दक्ष्यामि द्रक्ष्यामीति वा योग्यक्रियाध्याहारः ३. १. कृता तुरवा प्र.