पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणे अयोध्याकाण्डे २२ २४ २५ २६ २८ अनेकवर्षसाहस्रो वृद्धस्त्वमसि पार्थिव । स रामं युवराजानमभिषिञ्चस्व पार्थिवम् ।। २१ इच्छामो हि महाबाहुं रघुवीरं महाबलम् । गजेन महता यान्तं रामं छत्त्रावृताननम् ॥ इति तद्वचनं श्रुत्वा राजा तेषां मनःप्रियम् । अजानन्निव जिज्ञासुरिदं वचनमब्रवीत् ॥ २३ श्रुत्वैव वचनं यन्मे राघवं पतिमिच्छथ । राजानः संशयोऽयं मे किमिदं ब्रूत तत्त्वतः ॥ कथं नु मयि धर्मेण पृथिवीमनुशासति । भवन्तो द्रष्टुमिच्छन्ति युवराज ममात्मजम् ।। ते तमूचुमहात्मानं पौरजानपदैः सह । बहवो नृप कल्याणा गुणाः पुत्रस्य सन्ति ते ॥ गुणान् गुणवतो देव देवकल्पस्य धीमतः । प्रियानानन्दनान कृत्स्नान् प्रवक्ष्यामोऽद्य तान शृणु।।२७ दिव्यैर्गुणैः शक्रसमो रामः सत्यपराक्रमः । इक्ष्वाकुभ्योऽपि सर्वेभ्यो ह्यतिरिक्तो विशांपते । रामः सत्पुरुषो लोके सत्यधर्मपरायणः । साक्षाद्रामाद्विनिर्वत्तो धर्मश्चापि श्रिया सह ॥ २९ प्रजासुखत्वे चन्द्रस्य वसुधायाः क्षमागुणैः । बुद्धथा बृहस्पतेस्तुल्यो वीर्य साक्षाच्छचीपतेः ॥ ३० धर्मशः सत्यसंधश्च शीलवाननसूयकः । क्षान्तः सान्त्वयिता लक्ष्णः कृतज्ञो विजिनेन्द्रियः ॥ ३१ मृदुश्च स्थिरचित्तश्च सदा भव्योऽनसूयकः । प्रियवादी च भूतानां सन्यवादी च राघवः ।। ३२ बहुश्रुतानां वृद्धानां ब्राह्मणानामुपासिता । तेनास्येहातुला कीर्तिशस्तेजश्व वर्धते ।। देवासुरमनुष्याणां सर्वापु विशारदः । सम्यग्विद्याव्रतस्नातो यथावत माङ्गवेदविन । गान्धर्व च भुवि श्रेष्ठो बभूव भरताग्रजः । कल्याणाभिजनः माधुरदीनात्मामहामतिः ।। द्विजैरभिविनीतश्च श्रेष्ठैर्धर्मार्थनैपुणैः । यदा प्रति मंग्रामं प्रामार्थ नगरस्य वा ॥ गत्वा सौमित्रिसहितो नाििजत्य निवर्तते । संप्रामान पुनरागम्य कुञ्जरेण रथेन वा ।। पौरान स्वजनवन्नित्यं कुशलं परिपृच्छति । पुत्रैष्वनिपु दारेषु प्रेष्यशिष्यगणेपु च ।। ३८ निखिलेनानुपूर्व्या च पिता पुत्रानिवौरसान् । शुश्रुपन्ते च वः शिष्याः कश्चित् कर्मसु दंशिताः॥३९ इति नः पुरुषव्याघ्रः सदा रामोऽभिभापने । व्यसनेषु मनुष्याणां भृशं भवति दुःखितः ॥ उत्सवेषु च सर्वेषु पितव परितुष्यति । सत्यवादी महावासो वृद्धसेवी जितेन्द्रियः ।। स्मितपूर्वाभिभाषी च धर्म सर्वात्मना श्रितः । सम्यग्योना श्रेयमां च न विगृह्म कथाचिः ॥ ४२ उत्तरोत्तरयुक्तौ च वक्ता वाचस्पतिर्यथा । सुश्रूरायतताम्राक्षः साक्षाद्विष्णुरिव स्वयम् ॥ ४३ रामो लोकाभिरामोऽयं शौर्यवीर्यपराक्रमैः । प्रजापालनसंयुनो न रागोपहन्द्रियः ।। शक्तौलोक्यमप्यको भोक्तु किं नु महीमिमाम । नास्य क्रोधः प्रसादश्च निगर्थोऽस्ति कदाचन ॥ ४५ हन्त्येव नियमाद्वध्यानध्येषु न कुष्यति । युनक्त्यथैः प्रहपश्च तमसौ यत्र तुष्यति ।। शान्तैः सर्वप्रजाकान्तैः प्रीतिसंजननैर्नृणाम । गुणैविरोचते रामो दीप्तः सूर्य इवांशुभिः॥ तमेवंगुणसंपन्नं रामं सत्यपराक्रमम् । लोकपालोपमं नाथमकामयत मेदिनी ॥ ४० ४४ ४६ ४८ १. बिगोति पाठान्तरम् । विग्रह- क. छ. २. यथेष खलु कुप्यति. अ,