पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

षट्पश्चाशः सर्गः ७९ १८ १९ २० २१ २२ २३ यानि देवेषु चास्त्राणि दानवेषु महर्षिषु । गन्धर्वयक्षरक्षःसु प्रतिभान्तु ममानघ ।। तव प्रसादाद्भवतु देवदेव ममेप्सितम् । एवमस्त्विति देवेशो वाक्यमुक्त्वा गतस्तदा ।। प्राप्य चास्त्राणि राजर्पिविश्वामित्रो महाबलः । दर्पण महता युक्तो दर्पपूर्णोऽभवत्तदा ।। विवर्धमानो वीर्येण समुद्र इव पर्वसु । हतमेव तदा मेने वसिष्ठभूषिसत्तमम् ॥ ततो गत्वाश्रमपदं मुमोचास्त्राणि पार्थिवः । यैस्तत्तपोवनं सर्व निर्दग्धं चास्त्रतेजसा ।। उदीर्यमाणमन्त्रं तद्विश्वामित्रस्य धीमतः । दृष्टा विद्रुता भीता मुनयः शतशो दिशः॥ वसिष्टस्य च ये शिष्यास्तथैव मृगपक्षिणः । विद्रन्ति भयादीता नानादिग्भ्यः सहस्रशः॥ वसिष्ठस्याश्रमपदं शून्यमासीन्महात्मनः । मुहर्तमिव निःशब्दमासीदिरिणसंनिभम् ।। वदतो वै वसिष्ठस्य मा भैष्टेति मुहुर्मुहुः । नाशयाम्यद्य गाधेयं नीहारमिव भास्करः ।। एवमुक्त्वा महातेजा वसिष्ठो जपतां वरः । विश्वामित्रं तदा वाक्यं सरोपमिदमब्रवीत् ।। आश्रमं चिरसंवृद्धं विनाशितवानसि । दुराचारोऽमि यन्मृढ तस्मात्त्वं न भविष्यसि । इत्युक्त्वा परमद्धो दण्डमुद्यम्य सत्वरः । विममिव कालाग्निं यमदण्डमिवापरम ।। इत्यार्षे श्रीमद्रामायणे बाल्मीकाये आदिकाव्ये चतुर्विशतिसहसिकायां संहितायां बालकाण्ई विश्वामित्रधनुदाधिगमो नाम पञ्चपञ्चाशः सर्गः २४ २५ २७ २८ षट्पञ्चाशः सर्गः १ २ ३ ४ - ब्रह्मतेजाबलम् एवमक्तो मिष्टेन विश्वामित्रो महाबलः । आमेयमनमुक्षिप्य तिष्ठ तिष्ठति चाब्रवीन ।। ब्रह्मदण्डं समुस्क्षिप्य कालदण्डमिवापरम । वसिष्ठो भगवान् क्रोधादिदं वचनमब्रवीत् ।। क्षत्रबन्धी स्थितोऽरम्यय यलं तद्विदर्शय । नाशयाम्येप ते दर्प शस्त्रस्य तव गाधिज । क च ने स्त्रियवलं क च ब्रह्मबलं महन् । पश्य ब्रह्मबलं दिव्यं मम त्रियपांसन ।। तस्यास्त्रं गाधिपुत्रस्य घोरमाग्रंयमुद्यनम् । ब्रह्मदण्डन तच्छान्तमग्नर्वग इवाम्भसा ॥ वारुणं चैव रौद्र च पेन्द्र पाशुपतं तथा । ऐषीकं चापि चिक्षेप कुपितो गाधिनन्दनः ।। मानव मोहन चैव गान्धर्व स्वापनं तथा। जृम्भणं मादनं चैव संतापनविलापन । शोषण दारण चैव वनमखं सुदुर्जयम् । ब्रह्मपाशं कालपाशं वारुणं पाशमेव च ॥ पैनाकालं च दयितं शुष्कार्दै अशनी उभे । दाण्डात्मथ पैशाचं क्रौञ्चमलं तथैव च ।। धर्मचक्रं कालचक्रं विष्णुचक्रं तथैव च । यायव्यं मथनं चैव असं हयशिरस्तथा ।। शक्तिद्वयं च चिक्षेप कङ्कालं मुसलं तथा । वैद्याधरं महास्वं च कालानमथ दारुणम् ॥ त्रिशूलमनं घोरं च कापालमथ कङ्कणम् । एतान्यत्राणि चिक्षेप सर्वाणि रघुनन्दन ।। ६ ७ ८ ९ १० ११ १२ 1. अत्र वाक्यपर्यवसानाय दस्थाविति पूरणीयम् । १. क्षत्रस्य म.