पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/११४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्व्युत्तरशततमः सर्गः १०८७ ३ ५ ६ ८ द्व्युत्तरशततमः सर्गः अङ्गदचन्द्रकेतुनिवेशः तच्छुत्वा हर्षमापेदे राघवो भ्रातृभिः सह । वाक्यं चाद्भुतसंकाशं तदा प्रोवाच लक्ष्मणम् ॥ १ इमो कुमारौ सौमित्रे तव धर्मविशारदौ । अङ्गदश्चन्द्रकेतुश्च राज्यार्थे दृढविक्रमौ ।। २ इमौ राज्येऽभिषेक्ष्यामि देशः साधु विधीयताम् । रमणीयो ह्यसंबाधो रमेतां यत्र धन्विनौ ।। न राज्ञा यत्र पीडा स्यान्नाश्रमाणां विनाशनम् । स देशो दृश्यतां सौम्य नापराध्यामहे यथा ॥ ४ तयोक्तवति रामे तु भरतः प्रत्युवाच ह । अयं कारुपयो देशो रमणीयो निरामयः ॥ निवेश्यतां तत्र पुरमङ्गदस्य महात्मनः । चन्द्रकेतोः सुरुचिरं चन्द्रकान्तं निरामयम् ।। तद्वाक्यं भरतेनोक्तं प्रतिजग्राह राधवः । तं च कृत्वा वशे देशमङ्गदस्य न्यवेशयन् ।। अङ्गान्दीया पुरी रम्या ह्यङ्गदस्य निवेशिना । रमणीया सुगुप्ता च रामेणाक्लिष्टकर्मणा ॥ चन्द्रकतोस्तु मन्द्रस्य मलभूम्यां निवेशिता । चन्द्रकान्तेनि विख्याता दिच्या स्वर्गपुरी यथा ॥ ९ ततो रामः परां प्रीति लक्ष्मणो भरतस्तथा । ययुयुद्धे दुराधर्षा अभिपेकं च चक्रिरे ।। अभिपिच्य कुमारौ स प्रस्थापयति राघवः । अङ्गद पश्चिमां भूमिं चन्द्रकेतुमुदकमुखम् ।। अगदं चापि मौमित्रिलक्ष्मणोऽनुजगाम ह । चन्द्रकतोस्तु भरतः पार्णिपाहो बभूव ह ।। १२ लक्ष्मणस्त्वदीयायां संवत्सरमथोषितः । पुत्र स्थिते दुराधर्षे ह्ययोज्यां पुनरागमत् ।। १३ भरतोऽपि नथैवोप्य संवत्सरमतोऽधिकम । अयोध्या पुनरागम्य रामपादावुपास्त सः ।। १४ उभौ सौमित्रिभरतौ रामपादावनुत्रनौ । कालं गतमपि स्नेहान्न जज्ञातेऽनिधार्मिकौ ।। १५ एवं वर्षमहस्राणि दश तेषां ययुग्तदा । धर्म प्रयतमानानां पौरकार्येषु नित्यदा ॥ १६ विद्वत्य कालं परिपूर्णमानसाः श्रिया वृता धर्मपुरे सुसंस्थिताः । यः समिद्धा इव दीप्ततेजसो महाध्वरे साधु हुतात्रयोऽग्नयः ।। इत्यार्षे श्रामद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां सहितायाम् उत्तरकाण्डे अङ्गदचन्द्रकेतुनिवेशो नाम द्व-युत्तरगनतमः मर्ग: व्युत्तरशततमः सर्गः १ कालागमनम् कस्यचित्वथ कालस्य रामे धर्मपथे स्थिते । कालस्तापसरूपेण राजद्वारमुपागमत् ।। सोऽब्रवीलक्ष्मणं वाक्यं धृतिमन्तं यशस्विनम् । मां निवेदय रामाय संप्राप्त कार्यगौरवात् ।। दूतोऽस्म्यतिबलस्याहं महर्षरमितौजसः । रामं दिक्षुरायातः कार्येण हि महाबल ॥ तस्य तद्वचनं श्रुत्वा सौमित्रिस्त्वरयान्वितः । न्यवेदयत रामाय तापसं तं समागतम् ।। २ ३ १. प्रानुन् ति. राघवः लि, ३. समिदाहुति- नि. ४. पचमिदं ति. न विलोक्वते। २.