पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/११२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

एकाशीतितमः सर्गः १०६५ ३ ४ ततः स दण्डः काकुत्स्थ बहुवर्षगणांयुतम् । अकरोत्तत्र दान्तात्मा राज्यं निहतकण्टकम् ॥२ अथ काले तु कस्मिंश्चिद्राजा भार्गवमाश्रमम् । रमणीयमुपाक्रामचैत्रे मासि मनोहरे ॥ तत्र भार्गवकन्यां स रूपेणाप्रतिमां भुवि । विचरन्ती वनोद्देशे दण्डोऽपश्यदनुसमाम् ॥ स दृष्ट्वा सां सुदुर्मेधा अनङ्गशरपीडितः । अभिगम्य सुसंविनां कन्यां वचनमब्रवीत् ॥ कुतस्त्वमसि सुश्रोणि कस्य वासि सुता शुभे । पीडितोऽहमनङ्गेन 'पृच्छामि त्वां शुभानने॥६ तस्य धैवं ब्रुवाणस्य मोहोन्मत्तस्य कामिनः । भार्गवी प्रत्युवाचेदं वचः सानुनयं नृपम् ।। ७ भार्गवस्य सुतां विद्धि देवस्याक्लिष्टकर्मणः । अरजां नाम राजेन्द्र ज्येष्ठामाश्रमवासिनीम् ॥ ८ मा मां स्पृश बलाद्राजम् कन्या पितृवशा बहम् । गुरुः पिता मे राजेन्द्र त्वं च शिष्यो महात्मनः व्यसनं सुमहत् क्रुद्धः स ते दद्यान्महातपाः । यदि वान्यन्मया कार्य धर्मदृष्टेन सत्पथा ॥१० वरयस्व नृपश्रेष्ठ पितरं मे महाद्युतिम् । अन्यथा तु फलं तुभ्यं भवेद्धाराभिसंहितम् ।। क्रोधेन हि पिता मेऽसौ त्रैलोक्यमपि निर्दहेत् । दास्यते चानवद्याङ्ग तव मां याचित: पिता ।। एवं ब्रुवाणामरजां दण्डः कामवशं गतः । प्रत्युवाच मदोन्मत्तः शिरस्याधाय चाञ्जलिम् ॥१३ प्रसादं कुरु सुश्रोणि न कालं क्षेप्तुमर्हसि । त्वत्कृते हि मम प्राणा विदीयन्ते वरानने ॥ १४ त्वां प्राप्य मे वधो वा स्याच्छापो वा यदि दारुणः । भक्तं भजस्व मां भीरु भजमानं सुविह्वलम् एवमुक्का तु तां कन्यां दोभ्यां गृह्य बलाबली । विस्फुरन्तीं यथाकामं मैथुनायोपचक्रमे ॥१६ एतमर्थं महाघोरं दण्डः कृत्वा सुदारुणम् । नगरं प्रययावाशु मधुमन्तमनुत्तमम् ।। अरजापि रुदन्ती सा आनमस्याविदूरतः । प्रतीक्षन्ती सुसंवस्ता पितरं देवसंनिभम् ॥ १८ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् उत्तरकाण्डे अरजासङ्गमो नाम अशीतितमः सर्ग: एकाशीतितमः सर्गः दण्डशाप: स मुहूर्तादुपश्रुत्य देवर्षिरमितप्रभः । स्वमाश्रमं शिष्यवृत्तः क्षुधातः संन्यवर्तत ॥ सोऽपश्यदरजां दीनां रजसा समभिप्लुताम् । ज्योत्स्नामिवारुणग्रस्तां प्रत्यूषे न विराजतीम्॥ तस्य रोषः समभवत् क्षुधार्तस्य विशेषतः । निर्दहन्निव लोकांस्त्रीशिष्यांश्चैतदुवाच ३ ।। पश्यध्वं विपरीवस्य दण्डस्याविजितात्मनः । विपत्तिं घोरसंकाशा 'क्रुद्धाममिशिखामिव ॥४ क्षयोऽस्य दुर्मतेः प्राप्तः सानुगस्य दुरात्मनः । यः प्रदीप्तां हुताशस्य शिखां वै स्प्रष्टुमिच्छति।। यस्मात् स कृतवान् पापमीदृशं घोरसंहितम्। तस्मात् प्राप्यति दुर्मेधाः फलं पापस्य कर्मण: सप्तरात्रेण राजासौ समृत्यबलवाहनः । पापकर्मसमाचारो वधं प्राप्स्यति दुर्मतिः ।। 1. सिलकरतु कुद्धादिति पठित्वा खान्मत्तः इति व्याचष्टे । गच्छामि प्र. २. विदं ति. पापं वापि सुदारुणम् ति. १ ३ ७ १. १. 134