पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/११२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

८ १०६६ श्रीमहाल्मीकिरामायणे उत्तरकाण्डे समन्ताद्योजनशतं विषयं चास्य दुर्मतेः । धक्ष्यते पांसुवर्षेण महता पाकशासनः ।। सर्वसत्त्वानि यानीह स्थावराणि चराणि च । महता पांसुवर्षेण विलयं सर्वतोऽगमन् ॥ .९ दण्डस्य विषया यावत्तावन सर्वसमुच्छ्यम् । पांसुवर्षमिवालक्ष्यं सप्तरात्रं भविष्यति ॥ १० इत्युत्तर क्रोधताम्राक्षस्तदानमनिवासिनम् । जनं जनपदान्तेषु स्थीयतामिति चामवीत् ॥ ११ श्रुत्वा तूशनसो वाक्यं सोऽश्रमावसभोजन. 1 निष्कान्तो विषयात्तस्मात् स्थानं चक्रेऽथ बाह्यतः स तथोका मुनिजनमरजामिदमत्रवीत् । इहैव वस दुर्मेधे आश्रमे सुसमाहिता ॥ १३ इदं योजनपर्यन्तं सरः सुरुचिरप्रभम् । अरजे विज्वरा भुश्व कालश्चात्र प्रतीक्ष्यताम ॥ १४ त्वत्ममीपे च ये सवा वासमेष्यन्ति तां निशाम । अवध्याः पांसुवर्षेण ते भविष्यन्ति नित्यदा श्रुत्वा नियोगं ब्रह्मर्षेः सारजा भार्गवी तदा । तथेति पितरं प्राह भार्गवं भृशदुःखिता ॥ १६ इत्युका भार्गवो वासमन्यत्र समकारयत । तच राज्यं नरेन्द्रस्य सभृत्यबलवाहनम् ॥ समाहादरममाद्भनं यथोक्तं ब्रह्मवादिना । तस्यासौ दण्डविपयो विनध्यशैवलयाप ॥ १८ शप्ता ब्रह्मर्षिणा तेन वैधयें सहिते कृते । ततः प्रभृति काकुत्स्थ दण्डकारण्यमुच्यते ।, १९ तपस्विनः स्थिता पत्र जनस्थानमतोऽभवत् । एतत्ते मर्वमाख्यातं यन्मां पृच्छसि राघव ॥२० सन्ध्यामुपामितु वीर समयो शानवर्तते । एते महर्षयः सर्वे पूर्णकुम्भाः समन्ततः ।। २१ कृतोदका नरव्याघ्र आदित्य पर्युपासते । स तैाह्मणमभ्यस्नं सहिब्रह्मवित्तमः ।। २२ रविरतं गतो राम गच्छादकमुपम्पृश ।। इत्यार्षे भीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् उत्तरकाण्डे दण्डशापो नाम एकाशीतितमः सर्गः १ द्व्य#पुनर्निर्दिष्टम् 8शीतितमः सर्गः रामनिवर्तनम् ऋषर्वचनमाज्ञाय रामः सन्ध्यामुपासितुम् । उपाक्रमन् सरः पुण्यमप्सरोगणसेवितम् ।। तत्रोदकमुपस्पृश्य सन्ध्यामन्वास्थ पश्चिमाम् । आश्रमं प्राविशद्रामः कुम्भयाने महात्मनः।। २ तस्यागम्त्या बहुगुणं कन्दमूलं तथोपधिम । शाल्यादीनि पवित्राणि भोजनार्थमकल्पयत् ॥३ स भुक्तवान्नरश्रेष्ठतदनममृतोपमम् । प्रीतश्च परितुष्टश्च तां रात्रि समुपाविशत् ।। प्रभाते कल्यमुत्थाय कृत्वाहिकमरिन्दमः । ऋषि समुपचकाम गमनाय रघूत्तमः ।। भभिवाचावीद्रामो महर्षि कुम्भसंभवम । आपछे स्वां पुरीं गन्तुं मामनुशातुमर्हसि ॥ ६ धन्योऽस्म्यनुगृहीतोऽस्मि दर्शनेन महात्मनः । द्रष्टुं चैवागमिष्यामि पावनार्थमिहात्मनः ॥ ७ तथा वदति काकुत्स्थे वाक्यमद्भुतदर्शनम् । उवाच परमप्रीतो धर्मनेत्रस्तपोधनः ॥ ८