पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/११२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

तमेवमुक्त्वा राजानं गङ्गां चाभाष्य लोककृत् । जगाम त्रिदिवं देवः सह सर्वैर्मरुद्गणैः।। २५
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायां
बालकाण्डे भगीरथवरप्रदानं नाम द्विचत्वारिंशः सर्गः

त्रिचत्वारिंशः सर्गः
गङ्गावतरणम्

देवदेवे गते तस्मिन् सोऽङ्गुष्ठाग्रनिपीडिताम् । कृत्वा वसुमतीं राम संवत्सरमुपासत ।। १
ऊर्ध्वबाहुर्निरालम्बो वायुभक्षो निराश्रयः । अचलः स्थाणुवत् स्थित्वा रात्रिंदिवमरिदम ॥ २
अथ संवत्सरे पूर्णे सर्वलोकनमस्कृतः । उमापतिः पशुपती राजानमिदमब्रवीत् ।। ३
प्रीतस्तेऽहं नरश्रेष्ठ करिष्यामि तव प्रियम् । शिरसा धारयिष्यामि शैलराजसुतामहम् ॥ ४
ततो हैमवती ज्येष्ठा सर्वलोकनमस्कृता । तदा सा सुमहद्रूपं कृत्वा वेगं च दुःसहम् ।। ५
आकाशादपतद्गङ्गा शिवे शिवशिरस्युत । अचिन्तयच्च सा देवी गङ्गा परमदुर्धरा ।। ६
विशाम्यहं हि पातालं स्रोतसा गृह्य शंकरम् । तम्यावलेपनं ज्ञात्वा क्रुद्धस्तु भगवान् हरः।। ७
तिरोभावयितुं बुद्धिं चक्रे त्रिणयनस्तदा । स तस्मिन् पतिता पुण्या पुण्ये रुद्रस्य मूर्धनि ।। ८
हिमवत्प्रतिमे राम जटामण्डलगह्वरे । सा कथंचिन्महीं गन्तुं नाशक्नोद्यत्नमास्थिता ।। ९
नैव निर्गमनं लेभे जटामण्डलमोहिता । तत्रैवाबम्भ्रमद्देवी संवत्सरगणान् बहून् । १०
तामपश्यन् पुनस्तत्र तपः परममास्थितः । स तेनतोषितश्चाभूदत्यर्थं रघुनन्दन ।। ११
विससर्ज ततो गङ्गां हरो बिन्दुसरः प्रति । तस्यां विसृज्यमानायां सप्त स्रोतांसि जज्ञिरे । १२
ह्रादिनी पावनी चैव नलिनी च तथा परा । तिस्रः प्राचीं दिशं जग्मुर्गङ्गाः शिवजलाः शुभाः ।। १३
सुचक्षुश्चैव सीता च सिन्धुश्चैव महानदी । तिस्रस्त्वेता दिशं जग्मुः प्रतीचीं तु शुभोदकाः ।। १४
तथैवालकनन्दा च विश्रुता लोकपावनी । सप्तमी चान्वगात्तासां भगीरथमथो नृपम् ॥ १५
भगीरथोऽपि राजर्षिर्दिव्यं स्यन्दनमास्थितः । प्रायादग्रे महातेजा गङ्गा तं चाप्यनुव्रजत् ।। १६
गगनाच्छंकरशिरस्ततो धरणिमागता । व्यसर्पत जलं तत्र प्रतिशब्दपुरस्कृतम् ॥ १७
मत्स्यकच्छपसङ्घैश्च शिंशुमारगणैस्तथा । पतद्भिः पतितैश्चान्यैर्व्यरोचत वसुंधरा ।। १८
ततो देवर्षिगन्धर्वा यक्षाः सिद्धगणास्तथा । व्यलोकयन्त ते तत्र गगनाद्गां गतां तदा ॥ १९
विमानैर्नगराकारैर्हयैर्गजवरैस्तथा । पारिप्लवगतैश्चापि देवतास्तत्र विष्ठिताः ।। २०
तदद्भुततमं लोके गङ्गापतनमुत्तमम् । दिदृक्षवो देवगणाः समीयुरमितौजसः ।। २१