पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/११३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणे बालकाण्डे

संपतद्भिः सुरगणैस्तेषां चाभरणौजसा । शतादित्यमिवाभाति गगनं गततोयवम् ।।२२ शिंशुमारोरगगणैर्मी नैरपि च चञ्चलैः । विद्युद्भिरिव विक्षिसैराकाशमभवत्तदा ।।२३ पाण्डरैः सलिलोत्पीडैः कीर्यमाणैः सहस्रधा । शारदाभ्रैरिवाकीर्णं गगनं हंससंप्लवैः ॥२४ क्वचिद् द्रुततरं याति कुटिलं क्वचिदायतम् । विनतं क्वचिदुद्भूतं क्वचिद्याति शनैः शनैः ।।२५ सलिलं सलिलेनैव क्वचिदभ्याहतं पुनः । मुहरूर्ध्वपथं गत्वा पपात वसुधातलम् ॥२६ तच्छङ्करशिरोभ्रष्टं भ्रष्टं भूमितले पुनः । व्यरोचत तदा तोयं निर्मलं गतकल्मषम् ।।२७ तत्र देवर्षिगन्धर्वा वसुधातलवासिनः । भवाङ्गपतितं तोयं पवित्रमिति पस्पृशुः ।।२८ शापात् प्रपतिता ये च गगनाद्वसुधातलम् । कृत्वा तत्राभिषकं ते बभूवुर्गतकल्मषाः ।।२९ धूतपापाः पुनस्तेन गङ्गातोयेन भास्वता । पुनराकाशमाविश्य स्वाँल्लोकान् प्रतिपेदिरे ।।३० मुमुदे मुदितो लोकस्तेन तोयेन भास्वता । कृताभिषेको गङ्गायां बभूव विगतक्लमः ।।३१ भगीरथोऽपि राजर्षिर्दिव्यं स्यन्दनमास्थितः । प्रायादग्रे महातेजास्तं गङ्गा पृष्टतोऽन्वगात् ।।३२ देवाः सर्षिगणाः सर्वे दैत्यदानवराक्षसाः । गन्धर्वयक्षप्रवराः सकिंनरमहोरगाः ।।३३ सर्वाश्चाप्सरसो राम भगीरथरथानुगाम् । गङ्गामन्वगमन् प्रीताः सर्वे जलचराश्च ये ।।३४ यतो भगीरथो राजा ततो गङ्गा यशस्विनी । जगाम सरितां श्रेष्ठा सर्वपापप्रणाशिनी ।।३५ ततो हि यजमानस्य जह्नोरद्भुतकर्मणः । गङ्गा संप्लावयामास यज्ञवाटं महात्मनः ।।३६ तस्या वलेपनं ज्ञात्वा क्रुद्धो यज्वा तु राघव । अपिबत् जलं सर्वं गङ्गायाः परमाद्भुतम् ॥३७ ततो देवाः सगन्धर्वा ऋषयश्च सुविस्मिताः । पूजयन्ति महात्मानं जह्नुं पुरुषसत्तमम् ।।३८ गङ्गां चानुनयन्ति स्म दुहितृत्वे महात्मनः । ततस्तुष्टो महातेजाः श्रोत्रभ्यामसृजन् पुनः ।।३९ तस्माज्जह्नुसुता गङ्गा प्रोच्यते जाह्नवीति च। जगाम च पुनर्गङ्गा भगीरथरथानुगा ॥४० सागरं चापि संप्राप्ता सा सरित्प्रवरा यदा । रसातलमुपागच्छत् सिद्ध्यर्थं तस्य कर्मणः ।।४१ भगीरथोऽपि राजर्षिगङ्गामादाय यत्नतः । पितामहान् भस्मकृतानपश्यद्दीनचेतनः ।।४२ अथ तद्भस्मनां राशिं गङ्गासलिलमुत्तमम् । प्लावयद्धूतपाप्मानः स्वर्गं प्राप्ता रघूत्तम ।।४३ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायां बालकाण्डे गङ्गावतरणं नाम त्रिचत्वारिंशः सर्गः